SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ raat यत्कालानन्तरं भवितव्ययोगान्मिथो वियुक्तौ बभूवतुः । तत्कथा चात्रमहत्वादनवसरत्वाख न दर्श्यते, किन्तु संक्षेपेण किश्विद्दर्शयामि । इत्थं ब्रह्मदत्तकुमारः शतवर्षाणि पर्याटत् । क्शाच सोढुमशक्या अनेके महान्त आपुः । अनेके दाराथ बभ्रुवुस्तैः सह सुखं स्वैरं भुञ्जानः स कालं व्यतीयाय । सर्वमेतद् ब्रह्मदत्तचरित्रे विस्तरं विलसति । तत एवैतदधिकजिज्ञासावद्भिर्बोध्यम् । अथ वियुक्ते च वरधनुनानि मित्रे कुमार एकाकी पर्यटनष्टचत्वारिंशत् कोशान्तमरण्यम्प्राप्तवान् । तच्च श्वापदादिदुष्टजीवैराकीर्णमतिभयास्पदमासीत् । तस्मिन् निर्जने वने चैकाकी गन्तुमशक्नुवन् किङ्कर्तव्यतामूढः स कुमारः कमपि सार्थवाहं प्रतीक्षमाण एकं ब्राह्मणमपश्यत् । तेन सह कुमारस्तत्र महाकानने चना । मध्याह्ने च कुलजिये समुपविणः स्वयं सक्तूनखादत् । कुमारस्य तु किश्चिदपि न दत्तम् । सोऽपि तस्मात्तन्न ययाचे । इत्थं तृतीये दिवसे समुल्लधितमहावनं कुमारमेवमृचे द्विजः । भो बालक ! तच दिनत्रयमशनादिकं विना यातम्। अत इदानीमनेन मार्गेण सुखेन समीपवर्ति नगरं याहि। तत्र गत्वा सुखी भविष्यसि । इति निगद्य ब्राह्मणश्वचाल | तत्राऽवसरे ब्रह्मद तेन स भणिदः। भो ब्राह्मण! त्वया ममोपकारो महान् कृतः । यस्य स्मृतिराजन्म मम स्थास्पति अतोऽइमिदानीं तत्प्रतिक्रियाङ्गतुं नाहमि । यदा त्वं ब्रह्मदत्तश्चक्रवर्तिनं शृणुयास्तदा त्वमवश्यमस्मत्पार्श्वमागन्तासि । अहं क्षत्रिय पुत्रोऽस्मि, तदा ते मनोऽभीष्टमहं पूरयिष्यामि । इति कुमारोक्तं श्रुत्वा ब्राह्मणो मनसि चिन्तयति । एतादृशा रजना बहुधा मे मिलितास्सन्ति । अतः कथमस चक्रवर्ती भविष्यति । भवतु, तथाऽपि योग्याशीदेगा, इति विचिन्त्य स वक्ति - हे महाभाग्यशालिन् । स्वं भाग्यवानसि तब मनोरथः सर्वः परिपूर्णतामुपैतु । इत्याशिषा कुमारमभिनन्द्य ब्राह्मणवचाल । ब्रह्मदत्तोऽपि द्विजादिष्टपथेन नगराऽभिमुखच चाल, इत्थं ग्रामानुग्रामकाननादिषु पर्यटन कुमारः शतवर्षाणि निनाय । मध्ये च स राज्ञां विद्याधराणाञ्च द्विनवतिसहस्राधिकलक्षङ्कन्या
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy