________________
क्षणमपि मनो मे कुत्राप्यन्यत्र नैव लगवि । अहमत्रैव तव चरणोपान्ते स्वप्स्यामि । इत्थं कुमारमम्यर्थ्य सोऽपि तत्रैवाऽधः स्थितः । I ततः कुमारीरूपमधिगता दासी वधूरपि तद्गृदे समागता सुष्वाप । ब्रह्मदत्तो वरधनुश्च परस्परमालपन्ती जागृतावेवास्ताम् । इतश्च मध्यरात्रे जाते निद्रिते च समस्तलोके सैका दुष्टा दुराचाररता राज्ञी तत्राऽझात्य तत्र लाक्षागृहे वह्निममुञ्चत् । तदनु किञ्चित्प्रदीash स्वस्थानमागत्य महता स्वरेण पूच्चक्रे । तथाहि भो भो रक्षकाः ! जागृत जागृत, घावत २ यत्र लाक्षामन्दिरे मम पुत्रो वासह सुप्तस्तज्ज्वलति | हा दैव ! किं कृतम् केन पापीयसा कृतमेवम्, हा हा ! ! मम पुत्रो दावे, किङ्करोमि ? भरे ! लोकाः ! सत्वरं कुमारं सद्गृहानिष्काशयत, नो वेदहमपि न जीविष्यामि, हा हा !!! कितम् १, यावदेवमाक्रोशमकरोद, तावत्तत्राऽग्निः कल्पान्तकाल इव वर्धमानः परितः प्रससार । गृहमध्ये च यदा ज्वलन्तं मन्दिरं कुमारेण दृष्टम् । तदा भयातुरः कुमारो वदति - अहो ! इदमकस्मात् किं जातम् १, वरधनुर्वक्ति भोः कुमार ! यज्जातं तत्पश्चात्कथयिष्यामि । पुनवक्तिं कुमारः तहींदानी किङ्कर्तव्यम्, सत्यरं वद, नो चेत्रयोऽपि मरिष्यामः । वरधनुर्वक्ति मा भैषीः अस्त्युपायः । अत्र स्थले दक्षिण चरणाघातं महता बलेन देहि । यदत्र कृतसुरङ्गाया मुखमस्ति ततो मार्ग लब्ध्वा निर्गमिष्यावः । कुमारस्तथा कृत्वा सुरङ्गद्वारमुद्धाव्य तेन मार्गेण मित्रेण सह चचाल । तस्मिन्नवसरे कुमारेण कथितम् - भो मित्र ! मम वधूमप्यानय नो चेन्मरिष्यति सा । वरधनुनोक्तम् स्वामिन् । समय नास्ति । जीविष्यसि चेदन्या षव्यो वच्वो मिलिष्यन्ति । एतस्मिन्नवसरे स्वरक्षणमेव विधातव्यम् । ततस्तावुभ सत्वरं सुरङ्गमार्गेण दानशालान्तिके समायातौ । तत्र च तयोरर्थे पूर्वमेव वरधनु पित्राऽश्वद्वयम स्थापयत् । सौ तात्रारुप तत्कालमेव देशान्तरं प्रययतुः । क्रमेण गच्छतोस्तयोः शतयोजनेऽतिक्रान्ते द्वावप्यश्वौ मम्रतुः । ततस्तौ पद्भ्यामेवाग्रे चेलतुः । एवं दीर्घपृष्ठनुपम