________________
कन
+-OXICOM
| यथा-अयि प्राणेश्वरि ! अद्यप्रभृति त्वत्सङ्गतिं त्यजामि, नो चेदवश्पमसौ ते पुत्रो मा मारयिष्यति । तदा सोवाच-हे प्राणनाथ ! मई त्वां कदाचिदपि त्यक्त्तुं नेच्छामि । सो विना क्षणमप्यहं जीवितं धतुं न शक्नोमि | मां विसृज्य कथगन्तुमिच्छसि १ । | तदा दीर्धेण दुष्टेन पुनरुक्तम्-तर्हि सत्वरं निजपुत्रं मारय, येनाऽऽवयोः सुखचिरस्थायि भवेत् । इत्याकर्ण्य सञ्जातहर्षया विषय | सुखलोमेन निजपुत्रमारणमङ्गीकृतं तया चुलन्या, ततः पुनरसो दीर्घपृष्ठराजा पुरेव स्वैरं तया सह क्रीडितुं लग्नः । इतश्च झटिति
पुत्रं निहन्तुमिच्छन्ती सा दुष्टा कस्यचित्कणयरदत्तस्य राज्ञः कुमार्या सह निजपुत्रस्य ब्रह्मदत्तकुमारस्य विवाहाऽवधारणं निश्चिक्ये । | तत एक लाक्षागृह निर्माप्य निजपुत्रमवोचत । हे पुत्र ! अस्मत्कुले चैषा रीतिरस्ति यः पाणिग्रहणं कुरुते, स बध्वा सह प्रथमदिने लाक्षागृह एव स्वपिति । सरलाशयः कुमारः सनातनी कुलपद्धति मत्त्वा सयोक्तं सहर्षमुरीचक्रे । एतत्स्वरूपं धनुनामाऽतिवृद्धो मन्त्री विदित्वा मनसि दध्यो । अहो ! मया कदाप्येपारीतिरेतल्कुले न श्रुता नैव दृष्टास्ति । नूनमनया दुराशया राश्या कुमारमारणायैप प्रपञ्चो विहितः । इत्यवधार्य तेन युद्धमन्त्रिणा कणयरराजानमेवं सूचितम् । यथा-मो राजन् ! विवाहानन्तरं ब्रह्मदत्त कुमारेण सह निजपुत्री मा गैषीः । काचन दासी तद्वेषभूषिता तेन सह प्रेषणीया । अन्यथा तवापि पश्चात्तापो महान भविष्यति । तत्कारणं पश्चाद् बोधयिष्यामि | कणयरराजा मन्त्रिवचनानुसारेण तथाकतु मनस्यवधारितवान् । पुनरसौ मन्त्री निजपुत्रं वरधनुमेवमशिक्षयत्-भोः पुत्र ! कुमारविघाताय दुष्टयाराड्या लाक्षागृह निम्मापितम् । सत्र मातुराजया कुमारः राजकन्या परिणीय शयिष्यते तया सह । यता कुमारस्तत्र गृहे पक्ष्यति । अत: कुमाररक्षाकृते त्वामई यथा शिक्षयामि त्वया तथैव सावधानमनसा विधातव्यम् । त्वया सर्वदा दिवानिय कुमारसमीप एव स्थातव्यम् । कदाप्यन्यत्र न गन्तव्यम् । तां परिणीयात्राऽऽगत्य कुमारो यदा लाक्षागृहे चयितुं |