________________
11
वक्तुमपि युज्यते । यदि संसारादुद्विग्नोऽसि तर्हि समागते चरमे वयसि त्वया दीक्षा ग्राह्मा, नेदानीमित्येव मे श्रेयस्करं प्रतिभाति । परं स्वमनसि सुविचार्य यत्करणीयं तत्करोतु । ततो वक्ति राजा है भ्रातः ! नाst भ्रान्तोऽस्मि, तत्रैब मतिर्विभ्रान्ता दृश्यते, यवं मां राज्ये स्थापयितुमिच्छसि । अरे ! किमिति नीति न स्मरसि " गृहीत इव केशेषु, मृत्युना धर्ममाचरेदिति " । अतस्त्वं राज्यं गृहाण । इत्युदीर्यं तस्मै राज्य दस्दा स्वयमेत्र गुर्वन्तिकं गत्वा प्रव्रज्याञ्जग्राह । अथ सुरप्रभो राजर्षिः सम्यक् संयमं समाराधन महता तपसा जपादिना च कम्र्माणि निर्जरयनन्तेऽनशनं विषाय मृत्वा पञ्चमे ब्रह्मदेवलोके देवोऽभूत् । इतश्च शशिप्रभो राजा धर्म्मविमुखो भूत्वा सप्तव्यसनाssसेवी मृत्वा तृतीयनरके समुदपद्यत । तत्र तस्य महान्ति दुःखानि सोढव्यानि बभ्रुवुः । सत्रावसरेऽवधिज्ञानेन महाक्केशमनुभवन्तं निजबान्धवमालोक्य स्नेहवशात् स सुरप्रभो देवस्तदन्तिकमाजगाम । तत्र तथावस्थं तं वीक्ष्य मोहवशात्तं तत उद्धर्तुकामेन प्रयतितेऽपि तस्य प्रत्युत क्लेशाधिक्यमेत्र जज्ञे । तदा देवस्तमेवमुवाच हे आतः ! मया बहुधा वारिवोऽपि त्वं पापान्न न्यवर्तयाः । अत एवंविधं मद्दाक्लेशमात्राअनुभवसि । इदानीं किं क्रियते । ततो नारकेयेणोक्तम्मो देव 1 मम दुःखादी विषादं मागाः | लोकैर्यथा क्रियते तथाऽवश्यमेव परत्र मुज्यते, मयाऽपि यथाऽर्जितं कर्म भवान्तरे तथा सुज्यते, भोगं बिना कस्यापि जीवस्य शुभाशुभकर्माणि न क्षयन्ति, अथ स देवः स्वस्थानमाययौ । शशिप्रभश्च तत्रैव भृशमसान दुःखान्यनुभवन् कुर्वथ पश्चात्तापमासीत् । अनया कथया लोकैः सारतमा ग्राह्यमवश्यमेतत्, तथाहि थथा सुरप्रभो राजाऽसारमेनं संसारं हेयमिति ज्ञातवान् ततो दुर्लभमेतन्मनुष्पत्वं धर्माराधनेन सफलीकुर्वन् देवगतिमाप्तवान् । अधर्मसेवनाच शशिप्रभो राजा नारकीं महतीं वेदनां चिरमन्वभूत्, अतः सर्वैरपि सुरप्रभवद्धर्ममार्जयद्भिर्मनुष्यत्वमतिदुरापमिदं सफलं कर्तव्यम् । तथा शशिप्रमस्म