SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ किन ये जीवा ईदृशमधिगतं मनुष्पवं प्रमादवमाद्विफलयन्ति, धर्म हित्वा पापानि कुर्वन्ति । ते शशिप्रमराजवत्पश्चाचा । कुर्वन्तः संसारापारकाननमध्य एव बहुशो भ्राम्यन्ति, कदापि तस्य संसारस्प परम्पारमधिगन्तु नाईन्ति । कितन्मनुष्यत्वं दश दृष्टान्तषणात्प्राणिनामतिदुर्लभमस्ति । तथापि ये प्राणिनो वीतरागाईतप्ररूपित शुद्धजैनधर्म यथावत् पालयन्ति । तेषामेव । विशुद्धो धर्मो मवकान्तारोलचने सार्थवाहतुल्यो भवति ॥ १२ ॥ महादशदुर्गतिपतनोपरि शशिप्रमराक्षः ९-कथातथाहि-इहैव भरतक्षेत्रे श्रावस्तिका नाम महती नगर्यस्ति । तत्र सुरप्रभनामा राजास्ति । तदीयो भ्राता कनीयान् शशिप्रभो युवराजपदं भजते । तत्रैकदा धर्मघोषसरिः कतिपयमुनिगणैः सहोधाने समायातः । तदा झटिति । वनपालः साधुसमागमनवर्धापनं राज्ञे ददौ । तदा हृष्टो राजा तस्मै यथेष्ट तुष्टिदानं दत्तवान् । ततो बघुबन्धुना सह महता है राजकीयेनाऽऽडम्बरेण राजा गुरुवन्दनार्थ तस्मिन्नुद्याने या गुरवस्तस्थुस्तकाजातः । गुरुन् विधिवचमस्कृत्य यथोचितस्थाने में सर्वे लोका उपाविशन् । गुरखो हि भवभयहरी धर्मदेशनां ददुः । गुरुमुखाद्धर्भमाकर्म राज्ञः प्रतिबोधो जातः । अथ देशमान्ते । गृहाजावो राजा संसारममुमसारं मन्यमानः सञ्जातविषयवैराग्यस्तदेव शशिप्रमाभिधं कनिष्टबन्धु जगाद-हे प्रातः 1 इदं राज्यं गृहाण । यदिदं जनान् महाघोरनरके पातयति । ममेदानीमपारसंसारसागरतरी दीक्षैत्र रोचते । अलं मे राज्यादिना । इत्याकार्य | शशिप्रमस्तमेवमगदत-हे राजन् ! कोऽयमकाण्डे प्रचण्डवित्तमो जातोऽस्ति । यदेवमकाले मधे । नेदानीं तवेदं यौवने वससि
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy