SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ लोकान्नोपकुर्वीत । ततः सोऽवक्-दे पुरुषरत्न ! अगापि कः सन्देहः । किञ्च-"महतां सङ्गतिकरणाजनानां कुमतिर्विलयं ॥ याति तोयस्थ लवणमिन ! अद्विशोदेटि तथैव मदानीमतिहरकर्मव्यसनिनोऽपि त्वत्सङ्गत्या सद्युद्धिरुदपद्यत । अतो है। स्वामिन् ! अद्याभूति तथा न कर्तुमिच्छामि । तथा पौराणां यानि यानि वस्तूनि मयाऽपहृतानि तेभ्यः सर्वेभ्यस्तानि समस्तानि मत्तस्त्वं प्रदापय । येन पौराः सुखिनो भवेयुः । ततोऽभयकुमारः सर्व राज्ञे व्यजिज्ञपत । ततो राजा नगरे पटहवादनमकरोत् ।। । यथा-मो लोकाः ! भवतां यानि यानि चोरितान्यभूवन तानि तान्यत्रात्य परिचीय च गृह्णन्तु इति । अथ पटहवादनेन तत्स्वरूपं । विज्ञाय हृष्टाः पौराः सर्वेऽपि तत्रागत्य स्वस्वधनानि समुपलक्ष्य जगृहुः । नगरे चौरोपद्रवोऽपि शान्ती यातः । स चौरोऽप्यभयकुमारसङ्गत्या शुद्धश्रावकोऽभवत् । ततो द्वादशवतधारकः स धर्मध्यानादिकं यावज्जीवं कुर्वनन्ते चाऽऽयुषि परिपूर्णे शुभध्यानेन मृत्वा देवगति प्राप। अस्याः कथायाः सारतका लौकैरयमवश्यमेव सारो ग्राह्यः, यथा नीचजातीयः परमस्तेनः प्रभूपदिष्टामेकामेव गाथां कुभाषतः सञ्जयाह । तथापि तस्य महोपकारो जातः । यचोरयन्नपि कदापि केनापि स न गृहीतः । सत्सङ्गतिः प्राप्ता, अलभ्यजैनधर्ममाप्तवान् । प्रान्ते चैहिकं पारलौकिकञ्च सुखमाप। ये ऽत: शुद्धभावेन भगवद्वाी शृपयन्ति, तथा ज्ञानमर्जयन्ति, वेऽवश्यमेवात्र लोके महत्तरां सुखसम्पत्तिमधिगच्छन्ति, परत्र च स्वर्गापवर्गोभृतां दिव्यां सम्पदमाप्नुवन्ति । अतोञश्यमेव ज्ञानोपार्जने लोकैः प्रयतितव्यम् । अथ ज्ञानोपरि मासतुषयोरुभयोात्रोः ८-कथानकम् A 13 EN
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy