SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दासोऽस्मि । यदाज्ञापयिष्यसि तदहं शिरसा ग्रहीष्यामि । तदर्थमेवाऽऽतोऽस्मिं । इति श्रुत्वा राज्ञोक्तम्- कि भोः । अहं तु कथन महान् साधुकास्त्ययमिति त्वामयेदिषम् । स्वं तु महापराक्रमी दृश्यसे । इत्युदीर्य स्मयमानो भूपतिः प्रधानम्प्रत्येवमवोचत | भोः ! कुमार ! अइमंत्र विषये किं वदामि, युवामेव यथा लोकाः सुखिनो भवेयुस्तथा कुरुतम् । इति नृपादेशं श्रुत्वा तायुभौ ततो बहिरागत्य केचिदेकान्ते समुपाविशताम् । तत्रात्मवृत्तं सर्वमादितः स कुमारं जगाद । पुनः कुमारेण स पृष्टः, कि मोः ! देवतानां लक्षणं तत्र कथं ज्ञातमभृत् । अथव कुमारेण पृष्ठे भगवतो महावीरस्य समवसरणमध्ये प्रमुखारविन्दतो यथा प्राप्तं तत्सर्वं तथैव तेनाध्वादि - हे स्वामिन् ! तद्गाथाऽर्थो मम हृदि सम्यग् लग्नस्ततः प्रभृत्यैव मे त्वम्मिलने महदौत्सुक्यमासीत् । अत एव पत्रमपि तुम्यं मया दत्तम् । प्रभूपवेशप्रभावादेव त्वया सह मेलनं जातम् । मनसि शुभभावोऽप्युत्पन्नः । किमधिकं ब्रवीमि यथा मत्सहस्रो दुराचारी तु कदापि ताशेन महता जनेन सह सङ्गति लब्धुं नार्हति । मम तु भाग्ययोगात् सर्वमपि जातम् । किञ्च हे स्वामिन् ! यथैव मे पुराकृतसुकृतयोगाद्भगवन्मुखारबिन्दतस्तादृशोपदेशो यातः, तथैव तव संयोगोपि । ईदृश सुन्दरमवसरमधिगम्य पुनरीकर्म कर्तुं नैव वाञ्छामि | हे स्वामिन् ! त्वयाऽपि मम निग्रहाय महानुपायः प्रपञ्चितः परं भगवदुपदेशलब्धा गाथैव सेदानीं त्वद्रचितजालतो माममोचत् । अत्रान्तरे कुमारेण पुनः पृष्टः । किं भोः ! सा गाथा त्वया भावतः शिक्षिता उताभावतः १ । सोऽवत्र है प्रभो ! म ग्रहणेनापि भावो नासीत् । अहं तु समवसरणमध्यतः पलायमानो मतिव्ययागासां प्रभुवदनसुधाकर-निःस्यन्दितां सुधामयज्ञायामछिपि श्रोत्राभ्यामविषम् । तन्माहात्म्यादिव मम सर्वे मनोरथाः सफलीभूताः । ततस्तमेवं कुमारो जगादहे भ्रातः पश्य की धर्ममाहात्म्यमिति । यते कुमावतोऽधीतमपि ज्ञानं महदुपकारि जातम् । तर्हि भावतः शिक्षित ज्ञान कपा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy