________________
-
घमामस्तकं तथा शोणिता कपाणं भ्रमौ तत्याज । यावन्मे कृतकर्मधयो न स्यात्तावन्मया कायोत्सर्ग एव स्थातव्यमिति नि. चित्य यत्र स्थले स मुनिः कायोत्सर्ग कृतवान, तत्रैव गत्वा कायोत्सर्गे निश्चलमनास्तस्थौ । तत्रावसरे सच्छरीरं सुषमाफन्या. शिरच्छेदोद्भुतशोणिते लिप्तमासीत् । तेन लोहितधन वज्रतुण्डाः कीटिकाश्चटिताः, तास्तदङ्गानि क्रमशचालनीसभिभानि कृतवन्त्यः । अप्रार्थे चैपा गाथाधीरो चिलाइपुत्तो, मुइंगलिआहि चालिणि व्व कओ। जो तहवि खजमाणो, पडिवन्नो उसमं अह॥ १ ॥
व्याख्या—धीरसत्वसंपन्नभिनातीपत्रः ( सुगलियादि ) कीरिकाभिर्भक्ष्यमाणथालनीव कृतस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम्, शुभपरिणामापरित्यागादिति हृदयम् । अर्थात कायोत्सर्गे स्थितस्य चिलातीपुत्रस्य देहः कीटिकाभिश्चालनीवत्सहन शच्छिद्रः कृतस्तथापि तदङ्ग विह्वलतां नाऽयत् । मनोऽपि नैव क्षुब्ध गिरिरिव निचलतामेव दधौ । ध्यानं न जहाँ । तथा कुर्वन्नेव सद्गतियानलक्षणेन शुभध्यानेन मृत्वा देवगति लेभे। ___ एतेन दृष्टान्तेन जनरेतदेव सारतया ग्राह्यम् ! यत्किल-स्वल्पेनापि तत्त्वज्ञानेन शुद्धश्रद्धावाँश्चिलातीपुत्रो महाक्रूरकर्मापि देवत्वमधिगतवानिति । किश्च तत्वज्ञानं शुद्धभावेन समाराधयतां मोक्षोऽपि करगतप्रायो भवति । अतो हे लोकाः ! यदि यूयं भवाम्बुधि वितीय सहि परिपूर्ण ज्ञानं लभध्वं । येन तस्वज्ञानमासाद्य दुस्तरममुं संसारसागरमक्लेशेन तरिप्पथ ।
अथ ज्ञानोपरि रोहिणीयचौरस्य ७-कथानकम्---
N
.-..-----.....- ..
.. --- -. . . .- - ---
_..... -- -.
.. - .
---