________________
अथ राज्यं कुर्वाणः स शालिवाहनो राजा चन्द्रलेखां नाम्नीं कस्यचन राक्षः पुत्रीमतिरूपलावण्यवतीं पद्मिनीं सकलकलावती युवतीं परिणीतवान् । इतश्च कश्चिदेको मायासुरनामा दैत्य आसीत्, जगति सर्वातिशयं विशिष्टं सुखं ममैवास्त्विवि या स दैत्यो वाममार्गीय - विधिना कामपि तामसी देवीमाराध्य प्रसादयामास । सापि तदाराधनेन तस्योपरि तुतोष । ततश्व मोहनाऽऽकर्षणादिषट्कर्माणि सिद्धानि चक्रे । ततश्चैकदा स दैत्यो मन्त्रबलेन पद्मिनीश्चन्द्रलेखामपहृत्य स्वायत्तां व्यधात् । इत ताम्प्रेयसीमपश्य शालिवाहनो महादुःखी बभूव । तां श्रोधयितुं सर्वासु दिक्षु भृत्यान् समादिशत् । अथ कोपि शुद्रकनामा कोष्ठपालः कथचित्स्वरूपं विज्ञाय तत्र गत्वा राज्ञीश्चन्द्रलेखां लात्वा राज्ञे समर्पयामास । अथ पादलिप्ताचार्यस्य शिष्यो नागार्जुननामाऽसीत् । स च कस्याश्विन्महानद्यास्तीरे निजावासं विहितवान् । तत्र च श्रीपार्श्वनाथप्रभोः ! महाचमत्कारशालिनीं प्रतिमां स्थापितवान् । प्रतिमाग्रे च कोटिबेधिरसमुत्पादयितुं शालिवाहनस्य राज्ञः पत्नीञ्चन्द्रलेखां हृत्वा तत्रानीय कियत्यामपि रात्रौ तथा yathod पारदं खलिकायां मईयामास । एवमनेकधा स नागार्जुनस्तथा पारदमर्दनं कारयामास । कथितञ्च तस्याः । यधेवत्स्वरूपं कस्यापि पत्यादेरग्रे कदापि वक्ष्यति तर्हि त्वां मारमिष्यामि । तद्भयेन कदापि नाऽवोचत सा । परमेकदा तत्क्लेशमसहमाना सा पद्मिनी कथाप्रसङ्गादेतत्स्वरूपं राज्ञः कथयामास । अथैकस्यां रात्रौ शयने निजप्रेयसीमनालोक्य राजा किमिति शङ्कमानः पुत्राभ्यां सह तत्रागतवान् । तां तत्र तथाकुर्वती मालोक्य बहुशस्तमनुनीय तस्याः स्याने निजपुत्रो संस्थाप्य भार्यया सह स्वस्थानमाययौ । अथ नागार्जुनोऽपि सम्पादित कोटिवेषिनो रसमयकूपिकाद्वयं ताम्यामलक्षिते कुत्रापि गुह्यस्थाने स्थापयामास । परं तत्सर्व कुमाराभ्यां गुमरीत्या दृष्टम् । गते च नागार्जुने वाम्यां कुमाराय तत्स्थानतो निशि कृषिकाद्वयं गृहीला स्वस्थानम्प्रति