SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 一 जली ४ ॥ तन्मध्यादेको यवीयान् महाविद्वान् सम्यगालोच्य राजानमेवमवोचत । हे राजन् ! प्रतिष्ठानपुरे कुम्भकारगृहे साहसः पुत्रो जावोऽस्ति । स उज्जयिनी राज्यं करिष्यति । एतदाकर्ण्य राहो महती चिन्ता समुत्यन्ना । तत एकदा विक्रमो नराधीशोऽसंख्यचतुरङ्गसैन्यं लात्वा दाक्षिणात्यप्रतिष्ठानपुरमागत्य तस्य कुम्भकारस्य गृहमवरोधयामास । सकुटुम् कुंमकारं निहन्तुं वेन नानोपायाः कारिताः । तत्रावसरे निजपुत्रसम्प्राप्तमहानिमीत्या सा विधवा तत्क्षणमेत्र के नागराजं सस्मार। सोऽपि तत्कालमेव तदग्रे प्रकटीभूय निजनवे तस्मै सुधापूर्णमेकं कुम्भं रिपुमैन्य-सङ्गावकरीममोघां शक्तिश्च दखाऽदृश्यतां गतः । अथ शातवाहनोऽपि नागदचसुधासेक - प्रभावतः पुराकृत- मृण्मय - मनुष्यादीनि सञ्जीवयामास । ततथ तानि सर्वाणि नानाशस्त्रास्त्रसहितानि मंत्रमहिम्ना विधाय तैरेव चतुरङ्गसैन्यैः सह विक्रमी सैन्यानि भक्तुं लग्नः । तस्मिन् युध्यमाने महान्त्यपि विक्रम सैन्यानि महात्रासमापुः । सोऽसंख्यं बलं क्षणादेव नाशयामास । तयः पलायमानः ससैन्यो विक्रमभूपतिस्ताषिकोत्तरतटमा गल्य तस्थौ तत्रैवश्चिन्तितं विक्रमार्केण । अहो कीदृशमेतस्य शौर्यम् । येन मदीयमशेष सैन्यं भग्नीकृतम् । दैवोक्तमपि सत्यमेव प्रतिभाति । साम्प्रतमेतस्मि भवनीतले कोऽध्येतस्य जेता नैवास्ति, साम्प्रतमनेन सह युध्यमानोऽहं नूनं पूर्वोपार्जितामपि जयश्रियं त्यक्ष्याम्येव । अत इदानीमनेन सह सन्धिरेव श्रेयस्कर इति विचार्य तेन सह सन्धिं कृतवान् । तत्र चैवं स्थापितमुभाभ्याम् । तापिकाया नद्या उत्तरवटी विक्रमार्कराज्यसीमास्तु । तस्या दक्षिणतटी तु शालिवाहनस्य राज्यसीमेति । ततो विक्रम उज्जयिनीमागतवान् । शालिवाहनोऽपि तत्र प्रतिष्ठानपुरे समागत्य निजराजधानी स्थापितवान् । ततश्च लोकेषु शालिवाहननाम्ना प्रसिद्धोऽभवत् ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy