SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जन्मनि राज्यमीदृर्श त्वया लब्धम् । स एव त्वमिह जन्मनि राज्यसौख्यमनुभवसि । स मुनिर्मृत्वा देवोऽजनिष्ट | पूर्वजकावली. न्मनि महारङ्कमिह जन्मनि राज्यसुखशालिनं च त्वामवगत्य प्रेम्णा मीनशरीरं प्रविश्य स एव देवो जहास । अत एतद्विषये त्वया किमपि न शोचनीयम् । इत्याकर्ण्य सञ्जतपूर्वभवजातिस्मृतिः स शालिवाहनो नृपः साधूक्तं सर्वे तथैव मेने । ततस्तस्य राज्ञो जैनमहती श्रद्धा समुत्पन्ना । ततः मृति शनपर्यारामो विशेष तन्नम् । धर्मकृत्ये सदैव तत्परोऽभवत् । अस्मिन् भारते तनाम्ना प्रवर्तितो वत्सरोऽद्यापि पञ्चाङ्गे ज्योतिर्विद्भिर्विलिख्यत एव । किञ्च विक्रमार्कनृपतिना सह यथास्य सङ्ग्रामोऽभूत्तथाऽधस्तनप्रदर्शित लेखतो बोध्यः । १३ ॥ 一 तथाहि — प्रतिष्ठानपुरे नगरे कस्यचित् कुम्भकारस्य गृहे त्र्यो यात्रार्थिनः समागताः । तत्र द्वौ भ्रातरौ तदीयाऽचिरकालिकी विधवा भगिन्यासीत् । सा च निजश्रियाऽप्सरसोऽप्यधिका पश्यतां यूनां धैर्यलोपन विधायिनी महारूपलावण्यशालिनी किमधिकेन ब्रह्माण्डोदर मध्यवर्तिकामिनीनामखिलानां सा हि प्रशस्यतमाऽऽसीत् । सा चैकदा संध्यासमये गोदावर्या जलाहरणाय नागहूदं गता । तत्रावसरे सैकाकिनी स्वप्सरायमाणा वैधव्यदोषेण मनोहर - कौशेयाऽऽभरणादिहीनापि नैसर्गिकाऽनुपमतनुश्रियैव नितरां शोभमाना तथा शशिकलेव सर्वतः प्रकाशयन्ती परिधानवसनं किञ्चिदुचैः कृत्वा वारिप्रविष्टा घटं वारिमध्ये यदैव पातयामास तत्रावसरे तस्याः शिरसो वसनं चायुना किशिचालितम् । तत्र समये सदीयकुटिला अतिश्यामलाः स्निग्धा लम्बाधमानाः कचवरा अंसयोः पतिता नितरामशोभन्त । तथा तडिद्गौरवर्णामास्तस्या अत्युमतौ चारू पीवरौ सुकठिनों पयोधरों कनकलतायामुदिते सुफले इ शोभेते । तदा जलमध्ये तद्रुयुगं कदलीस्तम्भयुगमित्र शुशुभे । अथ तामवलोक्य किमियं काचन नागकन्या मां वरितुमिहाया-
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy