SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ | मान्यमासीत् । मोक्षातस्य भगवतो महावीरस्य सप्तत्यधिकचतुम्शते वर्षेऽजीते विक्रमायः सम्बत्सरः प्रार्तत। इस्थमकण्टकं राज्य कुर्वन्, मईक्ति विदधत स्वायु: शत सम्पूर्णीकृत्य विक्रमी नि म सपा देशकावाद । इतोऽधिक चरित्र | विक्रमचरित्रादितो चोध्यं जिज्ञासावद्भिः। अथ धर्मतस्योपरि शालिवाइननृपस्य ४-कथानकम्PM तथाहि-इहैव दक्षिणमहाराष्ट्रदेचे प्रतिष्ठानाभिधानं नगरं वर्तते । तत्र व शालिवाहनाख्यो राजा विलसति । स चैकदा निजनगरसीम्नि वहन्त्याः क्षिप्रानद्यास्तटे विहरन नदीशोभाश्च पश्यन नितरां जहर्ष । परं तत्रावसरे जलतरङ्गसंयोगादेको महाकायो मीनो नदीतीरमागत्य प्रकटं जहास । तदालोक्य स राजा मनसि क्षोभ कृतवान् । तत्रेदं कारणम्-पल्लोकेऽस्मिन् मत्स्यो नैव हसति । परमसौ जहास । तेन कोऽप्युत्तोऽवश्यं भात्रीति निश्चित्य विमना इव राजा निजावासमापनः । ततः सर्वान् देवज्ञान नैमित्तिकांश्च समाकार्य तत्कारणं राजा तानपृच्छतु । परं मनःसन्तोषकरमुत्तरं कोऽपि नानक । ततो विषण्णो राजा ज्ञानसागरनामानं जैनमुनिमपृच्छत् । भो मुने ! मामवलोक्य स मीनः कथं जहास? । इत्य राज्ञा पृष्टो र मुनिरवधिज्ञानयोगेन जन्मान्तरीयं सत्सर्वमालोक्य राजानमेवमवोचत् । हे राजेन्द्र ! सावधानमनसा तत्कारणमाकार्यताम् । इहैव नगरे पूर्वजन्मनि भवान् निरपत्यः काष्ठभारविक्रेता महारङ्क आसीत् । काष्ठमार वनादानीय विक्रीय च नगरे निजात्मानमपुषत् । एकदा नदीतीरे बिलोपरि सक्तून परसा (वारिणा ) पिण्डीर्वता कोऽपि मासोपवासी धमाश्रमणः पारमा गोचर्य समागच्छस्त्वयाऽलोकितः । तत्रावसरे श्रद्धया वमाहूय मुदा तत्सस्तपिण्ड तस्मै दचवान् वेन सुपात्रदानप्रमावत इह
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy