SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ हनाम्ने निजजारपुरुषाय प्रेम्णा दत्तवती । सोऽपि मणिकासमासक्तः शृङ्गारमञ्जरीवेश्यायै ददाति स्म । तयापि चिन्तितम्, PI एतत्फले राजा यदि मोक्ष्यति तहि वरै स्यादिति ध्यात्वा तदादाय स्वर्णस्थालके च निधाय निजपरिवारयुता राजसभमागत्य तस्मै भूजानये समर्पयामास । अथ तत्कलमालोक्य राज्ञो हर्षस्थाने महान विस्मयो जातः । अहो मयैतत स्वराये दत्तम् ।। तर्हि कथमनया लब्धम, एवमनेकधा निजमनसि संशयमधिगच्छन् राजा तामेवम्पप्रच्छ । अयि गणिके ! त्वयैतत्फलं कुतो लब्ध, सत्यं ब्रूहि, तत्रावसरे सा गणिका तद्विषये किमप्यलीकमेव वक्तुं लग्ना, परं राज्ञा तन्न स्वीकृतम्। पुनः पुनः क्षितिभुजा | पृष्टाऽपि यदा सा वेश्या सत्यवृत्तान्तं नाचोचत तदा प्रकुपितो राजा तामेवमवदत्, अरे रण्डे ! सत्यं वद कृतः प्राप्तमेतदिति, नो चेद नैव शालिकागां नामारोपरि मामि, सामादिदेश च मंत्रिणमेवम् भोः प्रधान ? एनामलीकवादिनीं बध्वा सन्ताडय । ततस्तां बध्वा ताडितुं लग्नः कोऽपि प्रतिहारी, ततोऽवादीत सा, हे स्वामिन ! मा ताडय र सत्य कथयामि यथा प्राप्तमिति सदैव सेवकः पाण्डवामियो मे दत्तमेतत् । मया तु विशिष्टम्फलमेतदिति ज्ञात्वा भवते समर्पितम् । अथ पाण्डवमाहूय राजा तत्स्व- | रूपम्पप्रच्छ । सोऽपि बहुधा ताडितोऽपि विभीषितोऽपि सत्यं नाख्यत् । परं विचक्षणो भर्तृहरिरन्यथैव तत्स्वरूपमवधार्य तत्फ । लश्च वनाच्छन्नमादाय राश्याः पार्थभागतः । तामेवमपृच्छत् । भो राज्ञि ! महत्तमजरामरकारि फलं त्वया भक्षित किम् ! तयोक्तं स्वामिन् ! तस्मिन्नेव दिने मया भक्षितम् । तस्मिन्मनसरे महरिवं निजमनसि निश्चिकाय, यत्खल्वियं रानी पापीयसी | जारानुरागिणी वर्तते । अतोऽस्मिन्ससारे संसारे धीराणां का प्रीतिः । अहो कामपारतन्त्र्यमुपागतो लोको ध्रुवमकार्यमपि विधत्ते। इत्यं स नरपतिविषय विमुखो भूत्वाऽमुं संसारमसारं जानन दीक्षामेव निःश्रेयसे स्वीचकार । इतश्च नानादेशानटन् बहुशः
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy