________________
बली.
रागिण सेवितुभच्छत् । ततःप्रभृति सा मरिकान्ता निजभर्तरि महाद्रोह विदघती मनस्येवं दध्यौ। एष नितरां विषयवैमुख्यमुपगतः । मम तु सदैव घृतेन पहिरिव मदनो भृश वर्धिष्णुरेव दृश्यते । सति सस्मिन् भर्तरि पुरुपान्तरेणाऽपि मम स्वैरविहारो | व श्यादित्यादिनिताला गानदासीह मा, सावदेकदा महीभुजस्तस्य सञ्जातषष्ठोपवासस्य पारणकमागात् अर्थात-दिनद्वयमुपोषितस्य महीजानेः पारणादिवसो हि समागतः । तत्र दिने पारणायां विपमिश्रमाहार राजानं भोजयामास, स राजा तस्यास महादुष्टायास्तादृशं दुश्चेष्टितं जाननपि स्वस्य तथा भवितव्यं मत्वा किञ्चिदप्यनूचानस्तद्दत्तमाहारं सुखेन भुक्त्वा सर्वाङ्ग गरलव्याप्त्या व्याकुलतामधिगच्छन्नचेष्टो जातः । तत्राज्ञसरे कुशलं प्रष्टुं सर्वे सामन्तामात्यादयो राजकीयास्तत्राजग्मुः । तस्मिन्नवसरे सूरिकान्तया दुष्टधिया चिन्तितमेवम् | अहो यद्यसौ नरनाथः कमपि मम चेष्टितङ्कथयेत्तर्हि महदपयशो मे स्यादिति विचिन्तयन्ती सा दुर्धी राझी स्त्रीचरित्रं नाटयन्ती राजान्तिकमागत्य केशपाशमुन्मुच्याऽभितो विलोकयन्ती नृपोपरि पतन्ती
राज्ञो नलिकामुञ्चैः परिपीड्य राजा ममारेति तत्क्षणमाक्रोष्टुमारेमे । तदाक्रन्दनमाकये सर्वेऽपि लोकास्तत्रागता नृपं मृतम्पश्यन्तो | नितरां शुशुचुः पुनस्ते तदीयोत्तरक्रिया कर्तुम्प्रावर्तिपुः । राजा मृत्वा समाधिमरणमाहात्म्येन प्रथमे देवलोके पूर्याभविमाने सूर्या
मनामा देवोऽभूत् । तत्र च चतुःपल्योपममायुर्भुक्त्वा ततश्युत्वा महाविदेहे क्षेत्रे मानुष्यमासाद्य सद्गुरुपयोगे चारित्र्यम्परिपाल्प - कर्मसन्तति क्षपयित्वा मोथं प्राप्स्यति । अक्षय मुखं भोक्ष्यति । अतो हे भव्याः ! परमसुखार्थिनः भवन्तोऽपि यदि मोक्षसाम्राज्य
मिच्छेयुस्तहि प्रदेशिराजक्त सद्गुरुसमायोग विधाय धर्मे मतिदादयं कुर्वन्तु ।