SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ANTARAg | नाच्छन्ति । पुनरेतत्फुटायोतिका गाथाप्येवं-चचारि पंच जोयण-सयाइ गंधो अ मणुअलोगस्स । उल्लु बबइ पेण, न हु देवा सेण आईति ॥ १॥ किश्च देवा देव्यो वा दासीकता न सन्ति लोकः । येन समागस्य सत्यमखिलं पूर्व लोकान् कथयेयुः। अपरमपि दृष्टान्तं प्रमाणतया त्वां दर्शयामि तमपि श्रद्धालुर्भूत्वा शृणु हे राजन् ! त्वामेव सुस्नातमनुलिप्तसुरभिचन्दन, रमणीयचद्धकौशेयवसनाभरणैर्मण्डितगात्रं देवपूजाय गच्छन्तम्पथि कश्चिचाण्डालादिजनो महताप्याग्रहेण यद्येवं ब्रूयात् । हे सामिन् । अहं ! तव दासोऽस्मि सदैव भवदुच्छिष्टमश्नामि, सांप्रतमप्युच्छिष्टमेव शिरसा वहन व्रजामि। परं मयाञ्च महाश्चर्य विलोकितम् । तदिहागत्य मत्तो भवद्भिरवश्यं श्रोतव्यम् । इति तदाहूतस्त्वं तदन्तिकं गमिष्यति नवेति राजोवाच हे स्वामिन् ! तदानीं नाई तल्पाच गच्छानि, तदुक्तं श्रोतुं तत्र क्षणमपि न विष्ठानि । इति राज्ञो वचः समाकर्ण्य गुरव ऊचुः । हे राजन् ! यथा विशिष्टं देवार्चनादिकृत्यं विहाय भवान् नीचजनान्तिकमालपितुं न जिगमिषति । तथैव देवतापि मनुष्यैः सहाऽऽलपितुमिहलोके नाऽध्याति । परन्तु कियन्तो देवा वचनपारवश्यादिकारणेन कदाचिदेवात्र समागच्छन्ति । तत्कारणमेव दर्शयति-गायापंचसु जिणकल्लाणेसु चेव, महरिसितवाणुभादाओ । जम्मतरनेहेण य, आगच्छति सुरा इह पं ॥१॥ व्याख्या-जिनेश्वराणां पञ्चकल्याणके तथैव महर्षीणां तपःप्रमावाईवा अत्र समायान्ति । पुनर्भवान्तरप्रवरस्नेहप्राचुर्पण भीशालिभद्रपिषत द्वेषेणाऽपि च संगमदेववद्देवा मर्त्यलोके समागच्छन्ति । नान्यथेति श्रुत्वा नृप एवमाचष्ट प्रमो !! गतो मे संशयसकलोऽन्यत्र विषये । परमन्यमेकं पृच्छामि, वमपि. युक्त्या निराकरोतु। भवान । वाहिद गुरो। हे.
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy