SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ agar प्रमोदमकालमेव सुसज्जीभूय तदुद्यानं विहाराय मन्त्रिणा सह चचाल । एवं स मन्त्री नृपं वनक्रीडाव्याजेन तत्राऽनयत । यत्र स चतुर्ज्ञानी महामुनिः सकलकलाकुशलो नर-नारीकदम्बमण्डिते सदसि सुकृतिजन सुलभैरितरजनपुरापैरातशाश्वतधर्मैर्मधुरस्वरैः श्रोतृश्रोत्राहादक रैमे विकानतिगूढमपि तवं मोषयन्नाऽऽसीत् । मथेर्श मुनिमालोक्य वपसन राजा मन्त्रिणमेवं वदितुं लग्नः । तद्यथा - अरे चित्रसारथे ! असौ मुण्डी फिम्प्रलपति ? असौ श्रोतृजनघसनावले किमपि किम् ? कोऽयं पाखण्डी रक्ष्यसे । नृपोक्तमेतदाकर्ण्य प्रधानोऽवदत् । महाराज ! अहमप्येनं न जानामि यद्येन मातुमिच्छसि तदन्तिके गन्तव्यम् । ततो ज्ञास्यसि कोऽस्ति कीदृशव्यादि सर्वम् । अथैतन्मन्त्रववा सम्यमिति मत्वा मन्त्रिणा सह गुरोः पार्श्वेऽभिमानेन वन्दनादिकमकुर्वाणो नृपस्तत्रोपाविशत् । तदानीं गुरुरपि राशः प्रभावसरप्रदानाय जीवविषय एव प्राधान्येन व्याख्यातुं प्रारेमे । अथ राजाऽपि वस्तुमवसरमासाथ गुरुप्रत्येवमपृच्छत हे स्वामिन ! त्वमेताः सरला मम प्रजा इयतीमसती वाणी सुधा मलप्य कथं वञ्चयसि १ तत्राऽपि जीवसतां निरूपयसि । जीवो हि गगनकुसुमायमान एव प्रतिभाति । सतपदार्थस्यावश्यमुपलब्धिरपि भवति । यदि शरीरे कोऽप्यन्यो जीवात्मा भवेत् तर्हि तदुपलब्धिरपि भवेदेव । तथा न भवस्यतो जीवनिरूपणं सर्वथाऽलीकमेव वेथि । मया तु बहुधा विलोकितेऽपि समाहूतोऽपि जीवः पुत्राऽपि नैवावर्णि । अथ गुरुरवादीत - भो राजन् ! त्वं प्रत्यक्षमेव प्रमाणं मनुषे । अनुमानादिकं नैव मन्यसे चेदतः पृष्ठामि यथा प्रत्यक्षा restaurasia निधितस्त्वया, तथैव तव पृष्ठभागस्य चाक्षुषं प्रमाणमपि न जायते । इति तदभावोऽपि मन्तव्यः । यदि स्वपृष्ठभागस्य स्वचक्षुषा ग्रहणं न सम्भवति, तथाऽपि निजपृष्ठभागसत्तां स्वीकरोषि तर्हि किमपराद्धं जीवसत्तया । येन तुल्येऽपि
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy