________________
KH मण्डितः सदसि व्यराजत । प्रधानोऽपि तत्र गत्वा ते गणधरं महाराज विधिवत्प्रणम्य सस्समधमुपविश्य धर्मप्रभावमभृणोत् । स च
तत्वणमेव धर्मदेशनां श्रुत्वैव किश्चिन्क्षीणकर्मा सन प्रतिबुद्धोऽना । मेशनान्ने ए मुम्भार भकिनगात्म-कन्धरः स प्रधाना प्राञ्जलिरेवं गुरुम्पार्थयामास । हे स्वामिन् ! कृपा विधाय श्वेताम्बिकानगरी ध्रज | श्रीमतां तत्र गमनेन धर्मो नितरां वर्धिष्यते । किश्च चातकगणो स्वातिविन्दुमिव मयूरश्रेणी मेघपटलमिव भवन्तं वीक्षमाणो लोको भृशं मोदिष्यते च । इत्थं सविनयं साग्रह प्रधानप्रार्थनामाकर्ण्य गुरुर्जगाद-भो महाभाग ! लोकास्तु तत्र श्रद्धालवः सन्ति, परं वाचकीनो राजा महादुष्टो नास्तिकोऽस्ति । इति तत्र गमनेन लोकानां श्रेयः कथं भविष्यति । तदा पुनस्तेनोक्तम् हे सद्गुरो । भवदागमनेनावश्यङ्कल्याणं भविष्यति । पुनरुक्तं । गुरुणा सत्यवसरे भवदुक्तं करिष्यामि । इत्थं गुरुणा सार्क प्रश्नोत्तरं विधाय चित्रसारथिर्गुरु वन्दित्वा ततो निरगात | तदनुसामान्तरमागत्य स्वामिकार्य सम्पाद्य स प्रधानो निजनगरमागत्य प्रदेशिराजानं नमस्कृत्य निजालये समागतः । गृहागतः प्रधानः स्नानादिभोजनान्तं विधाय वनपालं निजसमनि समाहृय रहसि तमेवमादिदेश । भो वनपाल ! तव वाटिकायां यदा कश्चिन्महात्मा मुनिरागच्छेसदा तदागमनं राजानं मा ब्रूहि, प्रथमं ममैव सत्वरं वाच्यम्, इति प्रधानादेश शिर
सावधार्य बनपालो निजधाम समाययौ । अथैकदा ग्रामानुग्राम विहरन स केशिकुमारो गणधरो मुनिगणैः सह श्वेताम्बिकापुर्या All मनोरमाभिधाने महोघाने समाययौ । तदानीमेव वनपाल आगत्य राजानमकथयित्वैव मन्त्रिण गुर्वागमनं विज्ञापयामास | परन्तु
महतामागमनमधिग्राम लोकैरविदितं कथं भवेत् । बहुतरमविकनर-नारीयथस्य गुरुवन्दनाय गमागमोऽध्यजायत । अप चित्रसारथिरपि राजान्तिक गत्वा तस्मै गुर्वागमनवृत्तमकथयन्नुषानविहाररागिण नृपं सायन्तनोपवनविहारापैष प्रार्थयामास ।
+aar