________________
क्रीडितुं गच्छन् पथि गंगानदीतीरे समुपाविशत् । तावचत्र नद्यां पोतं वाहयन्तीमतिरूपवती तारुण्यशालिनीं धीवरसुतामपश्यतस्पाश्च महीपतेः शान्तनोर्महान् राग उदियाय । तद्रयमोदितः स एकपदमपि गन्तुं न शशाक । तथापि कथमपि स्वालयमागत्य मंत्रिणमाहूय तमुत्तमवदत् - भोः प्रधान ! एवं रात्र याहि । तं धीवर था कयच यथा स निजपुत्र सत्यवर्ती रत्नवतीं मे दद्यात्तां विना किमपि मे न रोचते । अन्यथा मम जीवितेऽपि संशयमवेहि । अथ तदेव मन्त्री तदन्तिकमागत्थ धीवरं कन्यामयाचत । सर्व निशम्य स मत्स्यजीवी बभाषे - हे प्रधान ! तवोक्तं सत्यमस्ति । इमां कन्यामपि दित्सामि परन्तु तत्र स्वामिनो राज्ञो गांगेम नामैकः पुत्रो विद्यते स एव राज्यं ग्रहीष्यति । मदीयदौहित्रो राज्यं न प्राप्स्यति, मम पुण्यपि यावज्जीवं सपत्नीदुःखेन निजतनयस्य राज्यानधिकारित्वेन च दुःखमेवानुभविष्यति । अतो राजा मदीयदौहित्राय राज्यमिदं प्रदातुमिदानीमङ्गीकुर्यात्तर्हि सुखेन तस्मै पुत्रीमिमामहं दद्याम् । अन्यथा नेति तद्वचः श्रुत्वा तत आगत्य नृपाय सर्व व्यजिज्ञयत् । ततस्तदतिदुष्करं मत्वा शान्तनुः कर्तव्यतामूढो नितराम दास्यमभजत् । अथ सभावामासीनमुदासीनं पितरं दृष्ट्वा गरियोऽपृच्छत- पितः ! अद्य त्वं विच्छायक्दनः कथं लक्ष्यसे १ तव किमभूतन्मे कृपया ब्रूहि यदहं तत्प्रतिक्रियां कुर्याम् । अथ राज्ञा सत्स्वरूपे यथावत्कथिते गांगेयोऽवदत्-एवदतीव सुकरं चि । अहं सर्वसमक्षं कथयामि तत्पुत्राय राज्यप्रदानमङ्गीकुरु पुनस्तां परिणीय सुखी भव । इत्थं भाषितेऽपि नृपेण न विश्वस्तमितीङ्गितज्ञो गांगेयस्वत्कालमेव सकल्वलोकसमर्थ पितुर्निश्वासोत्पादनाय स्वपुंलिगमच्छेत्सीत् । तदत्याधर्म वीक्षमाणाः सकलाः जना विस्मयाविष्टा बभूवुः । ततः स धीवरो नृपाथ सुतामददत तस्यां श्वान्तनोः पुत्राभूतां तयोर्ज्यायान् पुत्रो