________________
T
शृण्वन्कस्यामेकस्यां तैलिकप्रतो ल्यामागत्य तस्थौ । तावचत्र काचित्तं लिक्खी कस्मैचित्कार्याय दिनान्तसमये बहिर्जमाम । तस्पा बहुविलम्बताऽनागतां वीक्ष्य तत्पतिः कुपितो द्वास्थकपाटे कीलकं दस्खा गृहान्तरविष्टत् । तावत्तत्पत्नी तत्रागत्य कपार्ट सार्गल वीक्ष्य जगाद - हे स्वामिन् 1 कपाटसुद्घाटय, द्वारि कपाटः सार्गलः कथं कृतः १ पतिरूचे - त्वमेतावत्कालं कुत्रासस्तद्वद् | ant विलम्बितं कुतः १ त्वमेवं युध्यसे, सत्यपि स्वेच्छाचारे मर्ता मे किङ्करिष्यतीति । परमहं रामचन्द्र इव विचारविकलो नास्मि । यो शमः सीतां पण्मासपर्यन्तं रावणालये स्थितामध्यानीय जग्राह अहं तादृशो नास्मि, यत्कामचारामपि त्वां ग्रहीष्यामि । तत्रैव तिष्ठ, प्रभाते तनिश्रयं कृत्वाऽन्तः प्रवेश दास्यामि । तस्येदृशं वचनं श्रुतवान् रामस्ततो गृहमागतवान् । अथ सीतायाः शीलपरीक्षायै लोकापवादनिरासाय रामचन्द्रः शतत्रयगजाऽऽयतनिम्नं महागर्त निर्माय तच ज्वलत्खदिराङ्गारैर्निभृतवान् । पुनः सर्वान् पौरांस्तत्राहूय सीतामवादीत् सोते ! यदि व शीलमखण्डित बिभषि तर्हि त्वमघुना लोकसमक्षम स्मिमग्निकुण्डे प्रविश, यथा ते कलङ्कोsपेतो भविष्यति । तच्छ्रुत्वा लवकुशाभ्यां पुत्राभ्यां सह सीता तत्राऽऽमत्य तस्थौ । चतुर्दिक्षु दिव्यं दिहवो लोकाः सबालाः सत्रियश्च समेत्य तस्थुः । देवा अपि विमानारूढा व्योनि समाजग्मुः । अत्रावसरे सीता पपाठ यथामनसि वचसि काये जागरे स्वप्न के वा, मम यदि पतिभावा राघवादन्यपुंसि ।
तदिह दह शरीरं मामकं पावक । स्वं सुकृतकुकृतभाजां त्वं हि लोकेन साक्षी ॥ १ ॥ tararaad सीता तत्राभिकुण्डे पपात, परमेतच्छीलमाहात्म्यतस्तदैव ज्वलअग्निकुण्डः साक्षात् शीतलवारकुण्डोऽमत्रत् । सरस इव ततोऽमिकुण्डादक्षताङ्गी निरगात् । तदानीं तदुपरि सुरनरगणाः कुसुमानि वपुः सर्वे जयजयारावञ्चकुः ।
सा