SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ - स नलनुपण चामतन्तुभिश्चालनी बध्वा कूपाजलमाजहे । पुनस्तेन वारिणा चम्पापुर्याद्वारमुद्घाट्य निजसतीत्वमहिमानं दर्शितवती । एवमरण्ये | नलनृपेण पत्या त्यक्ता महाकष्ट सहमाना शीलमखण्डितं दधार सतीशिरोमणिर्दमयन्ती । एवं पाण्डवानां पत्नी द्रौपदी सदसि ४ा दुःशासनाकृष्टवसना शीलप्रमावादेव निजोत्तरीयवासोऽवर्षयत । एतादृश्यो या या ललना अत्राप्रभूवन तारता उसमा सुलक्षणाः प्रशस्तयशस्काः प्रातःस्मरणीयाः सकलवाछितफलदाय आसन् ॥ १४ ॥ शीलप्रभावान्महाग्निकुण्डोऽपि जलवदतिशीतलमभूत्तदुपरि सीतायाः ९-कथायथा-पुरा रामपनी सीता रावणोहत्या लक्कामनैपीत्तत्र षण्मासी यावत्सा तस्थौ। ततो युद्ध रावण हत्वा सीतामयोध्यामनयत् ।। तामन्तःपुरे तिष्ठन्तीमकदा काचिदेका सपत्नी पर्यपृच्छद्यथा-हे सखि ! रावणः कीदृशोऽस्तीति मां कथय । तदीयं रूपं झातुं | कौतुकं महन्मे वर्तते । सीताञ्चदत-हे भगिनि ! मया कदापि तन्मुखं नाऽऽलोकि तत्कथं तद्रूपं वर्णयामि ? केवलं तस्य चरणावेव वीक्षितौ । तच्छ्रुत्वा सा तदैव पट्टिका रम्यां लेखनसामग्रीच सर्वामानीय सीताने न्यस्तवती । जगाद च हं सखि ! अस्यां पट्टिकायां तस्य चरणाषेच लिखित्वा दर्शय | सरलधीः सा सीता तस्यां रावणाऽची विलिख्य सपत्न्यै तस्यै ददौ । मा क्रूराशया सपली ता पट्टिकामादाय तत्र च पुष्पादिकं दवा रामचन्द्रमदर्शयज्जगाद च हे नाथ ! स्वं सदैव सीता सती २ कथदा यसि तद्गुणान् प्रशंससि । सा तु प्रत्यहमित्वं तच्चरणौ विलिख्य पुष्पादिना पूजयति । अथ तस्याः कथनेन रावणचरणदर्शनेन च रामस्य मनसि शङ्का जाता । पुनरेकस्यां रागो रामो रूपान्तरेण नगरान्तर्नवनवचर्चा बुभुत्सुः प्रतिप्रतोलि गच्छन् सर्वेषामालाएं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy