SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ समुश्रवदतु-भो जर्जर ! मध्याहवेलाऽगता, सथापि तव निद्रावसानो नाऽभूत कोऽत्र हेतुः १ एतावतोपायेन स यदा नोसस्यो, तदा तत्कर्णान्तिके भृशं घिरं मृदङ्गाद्यवादयत, इत्थं महता काप्टेन स समुस्थितवान् । तत्र समये तमपृच्छत-हे जर्जर ! तव पण्मासादेकदापि नागता निद्रा परमद्य कि जातं सदीदशी तगयाटाइटिसा प्रष्टः सोयन-तत्कारणं वक्तं न शक्नोमि. , तत्तु सर्वथावाच्यमस्ति । अथ सत्रासं मुहुर्मुहुस्तेन पृष्टः सोऽवादीत-यथावधत्कारणं कथयामि तत्सावधानेन श्रयताम्-अद्य मध्यरात्रे राज्ञी गवाक्षस्थितां इस्तिएका करिशुण्डादण्डेन गजस्कन्धे समानिन्ये । ततो गजशालामागत्य चिरमनङ्गलीला | विधाय पुनस्तथैव तां तत्र गवाक्षे समानीय मुमोच । स्वामिन् ! भवादशां दाराणामीदृशमनाचारमालोक्य निजपुत्रवध्वा जारसेवादर्शनान्महती पण्मासतो या चिन्ता ममाऽऽसीत्सा तु तदैव माममुश्चत् । अतो ममेदृशी निद्रा समागता अथैतदाकये तत्कालमेव सेवकान् समादिशद्राजा-मोः सेक्का! अद्यैव भवन्तस्तां राहीं तं हस्तिपक तं दन्तिनञ्च नगरे प्रतिमार्ग पटई वादयन्तो वैभारगिरि नयत, सेवकरतथाकृते । पुरलोका राजानमेवमभ्यर्थितवन्तःमी हे नाथ ! अत्र दन्तिनः को दोपः ! असौ सर्वथा निदोपः, अस्येदृशो दण्डः क्षम्यताम् । अथ सर्वेषामाग्रहेण दोष *क्षान्त्वा तं परावर्तयितुं तत्र कमपि जनमप्रेषीत् । अथ स तत्रागत्य करिणं परावर्तयितुं नृपादेशमयदत् । तत्र समये गजपेनोक्तम्K यदि नृप आवयोरप्यभयदान ददीत तर्हि दन्तिनमप्येनमधः परावर्तयेयमिति तज्जनमुखात्तद्धस्तिपप्रार्थनां श्रुत्वा राजा तयोर ध्यभयदानमदात् । अथ त्रयोऽपि ततो गिरिशिखरादधः परावर्तन्त । सतो नृपादेशात्करिणं तत्स्थान आस्ताने बबन्ध । परममोच्यौ तो स्वदेशानिष्कासितवान् ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy