________________
अथ तासामेत्र दोषमाह यथा- काचिच्छुकुमालिकाभिधाना दुष्टा स्त्री सरलस्नेहप्रकृतिकं निजवल्लभमपि जितशत्रुनृपं गङ्गाम्भसि न्यपातयत् एषा कथा विस्तरता गुप्त कीर्तितारित, तयातः श्रेष्ठी स्वशीलगुणपाली सहसैवाभयाख्यया राज्या मुधा कलङ्गितोऽभूत् ॥ ११ ॥
अथ सुदर्शन श्रेष्ठिनमभया राज्ञी कलङ्कयामास, तयोः ६ - कथा -
पुरा किल पाटलीपुरनगरे सुदर्शनाभिघानः श्रेष्ठी निवसति स्म । सोऽतीवसुन्दरः सुशीलश्वासीत्तमेकदामपाख्या राशी विलोक्य तस्मिन् रागवतो जाता । तत एकदा केनापि व्याजेन दास्या स्थान्तिके समानादिवती । तमागतं वक्ष्य मन्दं मन्दं हसन्ती भृशं कटाक्षयन्ती नानाहावभावं प्रकाशयन्ती मदनविलासमभ्यर्थयत । तथाहि - हे नाथ । मामधुना भूसे बाधते मदनस्त्वदीयरूपतारुण्यविलोकनादतो मया सह यथे रमस्त्र । इत्थं तत्प्रार्थनं निशम्य निजशीलरक्षायै स तामवदीत - अयि राज्ञि ! ययोक्तं सत्यमस्ति परं किं कुर्याम् ? पौरुपमेव नास्ति मयि, तदभावान्मदनेऽपि चैतन्यं न जायते । अथैवमाकर्ण्य सा से विससर्ज । ततः कियद्दिनानन्तरं सा राज्ञी गवाक्षे स्थिता पथि तुरङ्गारूढान्देवकुमारानिव गच्छतस्वारुण्यादिगुणशालिनः षट् पुरुषानद्राक्षीत् । तदानीं तत्पार्श्वे प्रधानभार्या कपिलाभिधानादासी च स्थितासीत्, अथ राज्ञी पृष्टवती-अघि वयस्ये ! एते व्रजन्तः कस्य पुत्रा सन्ति ? दास्यचे - स्वामिनि । अमी पट् कुमाराः सुदर्शनश्रेष्ठिनः सन्ति । अथैत्रमाह राज्ञी - भो दासि ! तस्य पौरुषहीनस्य षट्सुताः कथमभ्रुवन् ? कपिला जगाद हे स्वामिनि । स घृतस्तथा कथयित्वा स्वां कामुकीम । पौरुषं विना तस्य |दिकं कथं संभाव्यते ? तदनु सा राज्ञी तदुपरि रुष्टा सती दास्या विचार्य सुधेव सुदर्शनस्य कलङ्कमारोपितवती ।