SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ l नलं राज्ये बरं यौवराज्ये चन्यस्य दीक्षा ललौ । तदनु नलं राजानं घूते जित्वा कुबरो नृपोऽमयत् । नलस्तु दमयन्त्या सह वनवास्वस्त दैवयोगान्मार्गे दमयन्तीमपि जहौ । स्त्रयन्तु कुजत्वमगच्छ-कर्मयोगादमयन्त्या अपि मुधा चौर्याऽपवादोऽलगत् । क्रमशस्तस्याः पुनः स्वम्पराऽवसरे परस्पर सम्मेलनमभूद्राज्यमप्याप्तवान् । तदनु चिरं राज्यसुखमनुस्य सजातवैराग्यवशात्स नलः प्रवाज दमयन्त्यपि संयमिनी जज्ञे । उभावपि संयम पालवन्तौ पृयर पृयह विचरतुः । अथैकदा दमयन्ती सानी विलोक्य नलराजर्षे. चित्रं कामर्शवदमजायत । तज्ज्ञावा प्रतिबोध्य सा दमयन्ती तस्प चारित्रस्वैये व्यघात । . अथ राजीमती कामयमानस्य समुनिमतोत्सर्गध्यानस्य रथनेमिमुनेः ४-प्रबन्धःयथकदा श्रीनेमिनाथस्य भगवतो बन्ध स्थनेमिनामा नेमिप्रभोर्देशनातः प्रतिबोधमासाद्य दीक्षितोडमवत् । ततःप्रभाति पर्वतगुहायां कायोत्सर्गध्यानेतिष्ठन् । अथैकदा वर्षौ भगवन्तं नेमिनाथमभिवन्ध ततः परावर्तमाना साधी राजीमती मार्गे वर्षात आर्द्रवसना जाता तानि च शुष्कयितुं सा साधीः गुहान्तर्गता। तत्राई सतानि देहादुत्तार्य शुष्कयितुं लगा। तत्रावसरे राजीमत्याश्चारुतरमङ्गोपाङ्गमनावृतं निरीक्ष्म कायोत्सर्गध्यानस्थोऽपि रथनेमिमुनिः कामनरजालतो विभिन्नपात्रो जातः । शुभध्यानन्तु सर्वथैव विसस्मार। केवलमशुभध्यानकर्दमे निमग्नोऽभवद् विपश्मदिरामत्तः स गतत्रपस्ता मुखतः कामक्रीडामयाचिष्ट । तथाहि-अयि राजीमति ! तदृशं योरनं वयोरूपादिकपतिसुन्दरं वर्तते । तरी मुधा किं गमयसि ? शीघ्रमेहि मया सह यथेष्ट स्मस्व । येनाऽनयोरिदं जन्म सफलीभविष्यति, आकस्मिकमीशं प्रारहितं तदूचः श्रुत्वा सा राजीमती निजमङ्गोपाङ्गं सम्यक् । संगोप्य सतस्त्वां घिगित्यादिभाषगपूर्व कियदपि काकवादिदृष्टान्त तमदर्शयत् । प्रान्ते च तं निन्दन्ती जगाइ । भो अधीर ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy