________________
दवा गृहमागत्य ब्रडिसीशमतः । अथाऽन्यदा राज्ञी स्नानानुलेपनादिकं विधाय वेणीं धूपयन्ती बनून । तस्मिन्नवसरे सकुचि"देत्य राज्याः शिरसि धर्मः विलोक्य शटिति तत्र धूलि प्रक्षिप्तवान् । तेन कर्मणाऽयोग्योऽयमिति मत्वा राजा तं निष्कासितवान् । अतो दे नराः ! ईदृशो मूर्खः सह सर्वैवायते । अतो वच्मि-सदा सर्वैः परमार्थ विदित्वा तदुचितं विधेयम् । शैशवे सर्वैरेव विद्यायासे यवितव्यम अन्यथा यावज्जीवं मूर्खाः सन्तः क्लिश्यन्ति ।
अथ पुनरपि सुतोपरि कपिग्रहिपक्षिणोः २१-कथा-
यथा - कदाचित्कुत्रचिह्नने शीतबाधया वेपमानं वानरमालोक्य कुतनीडस्था काचन सुगृही-पक्षिणी जगाद -
दो हत्या दो पाउरा, दो लोयण दो कन्न । थर थर कंपे देहड़ी, कर घर रखवा तन ॥ १ ॥ अपि च-द्वौ हस्तौ द्वौ पादौ च दृश्यते पुरुषाकृतिः । शीतभीतिहरं मूढ !, गृहं किन करोषि भोः ! ॥२॥ इत्यादि सुगृहिपक्षिण्योत्तमाकर्ण्य सञ्जातरोषः स कपिस्तदैव समुत्प्लुत्य तद्गृहमभावक्षीत । तदानीं तद्भीत्या नश्यन्ती सा तेनेत्यं भणिता – सूचीमुखी दुराचारी, रे रे पण्डितमानिनि || असमर्थी गृहारम्भे, समर्थो गृहभञ्जने ॥ ३ ॥ रे रण्डे ! त्वं मां मूर्खमशरूमवेदीस्तत्फलं पश्य – अहो ! मूर्खाणां हितोपदेशोऽपि सतामनर्थाय भवति । भत उक्तम्
उपदेशो न दातव्यो यादृशे तादृशे जने । पश्य वानरमूर्खेण, सुगृही निर्गृही कृतः ॥ ४ ॥ भतो वच्मि सद्भिरयोग्याय हितमपि नोपवेष्टव्यम् । यतो मूर्खोपदेशस्तेवायुपदेष्टृणामेवाऽनर्थाय जायते ।