SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अथ १९- कला - विषये. - चतुर कर कलानो संग्रहो सौख्यकारी, इण गुण जिण लाधी द्रौण सम्पत्ति सारी । हिवर मन रंगे ले धरधो उत्तमाङ्गे || ३२ || कर्ता लाने हे प्राणिनः ! सुवेच्छा चेत्कला विज्ञानं कुरुत । हे चतुर । इह हि कलावत प्राणिनामसीमानि सुखानि सम्पदश्व सकला अनायासेन जायन्ते । पश्यत - द्रोणाचार्यस्य कला विज्ञानयोगात्कीदृशी सम्पत्तिर्जाता कियती च तदीया सुकीर्तिलोंके प्रथितेति । तथा महादेवः पुरा कलायोगाच्छसि वारि दधत्रिपुरं व्यजेष्ट । एवं जैनेतरग्रन्थेऽस्ति तत एवं समस्तं तद् बोधनीयम् ।। ३२ ।। अथ कलावद्रोणाचार्यार्जुनभिल्लानां १९ - कथानकम् - यथा -- कलावान् द्रोणाचार्यः पार्थ बाणावलीकलामशेषामशिक्षयत । मादृशो धनुर्धरोऽन्यः कोऽपि मास्त्विति धियाऽर्जुनो गुरुमवोचत - हे गुरो ! मामिवाऽन्यं कमपि धनुर्विद्यां मा शिक्षस्तेनापि तत्प्रतिपन्नम् । अन्यदा कश्चिद्धिलः समागत्य द्रोणगुरुं महतादरेणावोचत । हे गुरो । मामपि धनुर्विद्यां शिक्षय द्रोणोऽवकू एवं नीचोऽसि ततोऽहं त्वां न शिक्षामि । तदनु स कुत्रचित्पर्वते गत्वा मृमर्थी द्रोणाचार्यप्रतिमां स्थापितवान् । प्रत्यहं वां द्रोणमूर्ति विधिना सम्पूज्य नमस्कृत्याऽभ्यर्थयत — द्रोणगुरो ! त्वं मां धनुर्विद्यां शिक्षण । त्वत्प्रसादादागमिष्यति सकला कलेति संप्रार्थ्य तं कस्यचिदेकस्यामलकीत रो: सूक्ष्मपत्राणि - लक्ष्यीकृत्य वाणेनाऽविध्यत् । इत्थं प्रत्यहं शिक्षमाणस्य भिल्लस्य षड्भिर्मासैः सकला कला स्वभ्यस्ताज्यूस सरोरेकमपि : पत्रमविद्धं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy