________________
ROSH
माकार्षीदिति घिया स्वदेशं त्यक्त्वा देशान्तरे यत्र कुत्रापि स्थातुं तमादिदेश । सोऽपि सहर्ष पितुरादेशं शिरसाऽवधार्य तदैव ततो निर्गत्य किमया दिनेन सोध्नगरमाययी। वन व वनानि वा समुपाविशतदा स आपणभवनं संमार्ण्य तद्रजांसि बहि1. क्षेप्तुं लग्नः । तदालोक्य तत्रोपविष्टः श्रेणिको व्यमृशत् अहो ! किमसौ मातीतो यदेतदविमहार्घाः पीतमृतिका : कनकाभाः (सेजमनुरी:) प्रक्षिपति । अतस्तमवदत् भोः श्रेष्टिन ! एतानि रजांसि गृहान्तः स्थापय । सत्यवसरे समुपयोक्ष्यन्ते तद्योग्यवचनेन योग्यं मत्वा निजालयमनयत् । श्रेणिकस्तद्गृहे गोपालकनाम्ना प्रसिद्धो भवतिष्ठत् । कियत्समयानन्तरं स श्रेष्ठी तस्मै निजपुत्र सुनन्दां सुविवाहविधिना ददौ । तया सह मोगं हुआनो गोपालकः श्रेष्ठिन आपणीयक्रयविक्रयाद्यापव्ययौ लिखन् सुखेन दिनानि मासीत् । अथैकदा तत्र नगरे कश्वन वणझारः सोपस्कराणां भारवाहिकवृषभानां सपादलक्ष लात्वा तत्रागात् । स प्रतिहट्टं तेजमतुरीति भाषाप्रसिद्धां क्रेतुमगमत्परं कुत्रापि तेन सा न लब्धा । तदा स तत्रत्यनुपमुपहारीकृत्य प्रार्थितवान् । राजन् ! मम ते जमतुरी मृण्मयाऽपेक्षा वर्तते, प्रसिद्धं सा मार्गिता परं कुत्रापि न प्राप्ता । तच्छ्रुत्वा तदैव तदर्थं नगरे सर्वत्र पटडो वादितो राज्ञा परं कोऽपि तं नास्पृशन्तत्रावसरे गोपालकेन जामात्रा प्रेरितो घनावहश्रेष्ट्री पटहं पस्पर्श । तदनु तस्मै वणझारभावाप्रसिद्धाय स गोपालकः श्रेष्ठिनः समक्षं तामेव तेजमसुरीमदापयत् । तदा श्रेष्ठी जहर्ष व्यचिन्तयच - अहो ! पुराहमेतद्रजो धिया प्रक्षेप्तुं लमः । तत वाद्य ममेयान् लाभो जातो तो धन्यो मतिमान मे जामाता येन वारितः पुरा । तदानीं तेन प्रतिनगरं पर्यटता वणझारेण दृष्टपूर्वः श्रेणिकः समुपलक्षितः । अथ तेज तुरीं लात्वा स निज स्थानमागात् । कियदिनानन्तरं स राजगृहं कार्यवशादागत्य श्रेणिकं शोधयन्तं राजानमवदय- हे प्रभो ! मया श्रेणिकः कुमारः सोईग्रामे घना वह श्रेष्ठिन आपणे दृष्टः कुशली वर्तते । तनिशम्य राजा नितरी