________________
बहुमूल्यं कर्णाभरणं पर्णवीटिकायां निधाय तस्मै ददौ । सतां त्वा तस्यै चाशिषं ददानः प्रतस्थे । बहिरागतः सीटिक गुर्वी ज्ञात्वा समुद्घाटितवान् । तत्र प्रोज्ज्वलद्रत्नं महाई निरीक्ष्य पुनस्तस्या अन्तिकमाजगाम तदैवमभाषत" जे पण सुवन्नह रयण कीं खुलह, माहिं मेल्यो फोफलवन्नह ।
अवर राय जो मां सोल्लह, सोहि न पहुंचे भीमतंबोल्ल " ॥ १ ॥
इति गाथां पठित्वा सदैव स प्रतिज्ञामकरोत् - यदद्यप्रभृति भीमाशाह श्रेष्ठिनं विना कमप्यन्यं न याचिभ्ये, इत्थं तत्कीर्तिः सर्वासु दिक्षु प्रससार | एवं स्वकीर्तिपताका प्रसारणेच्छावद्भिः सज्जनैरन्यैरपि तथाचरणीयं यथा तस्येव सुकीर्तिः सर्व लोके प्रयेत ।
अथ १८ - मंत्रि-विषये
सकस व्यसन वारे स्वामि सूं भक्ति धारे, स्वपरहित वधारे राजना काज सारे । अनय नय विचारे क्षुद्रता दूर वारे, निज सुत जिम धारे राज्य लक्ष्मी वधारे || ३२ || कीदृशेन प्रधानेन भाव्यमित्युपदिशति - सन्त्यक्त सप्तव्यसनकः, स्वस्वामिमुक्तः, स्वस्य परेषाञ्च हितचिन्तको, राज्यकार्यकरणे दक्षिणः, योsन्यायं कदापि कर्तुं नार्हति सदाचारनिरतः पुत्रार्थं पितेव सदैव सर्वतो राज्यलक्ष्मीं वर्धयेत, प्रजाश्च पालयेदीदृग्गुणविशिष्ट एव प्रधानतामर्हति यथाऽमयकुमारादिरभूत् ।
अय प्रधानपदे श्रीमतोऽभयकुमारमन्त्रिणः १८ - कथा -
यथा - राजगृहनगरे राजा प्रसेनजितो वर्तते । स एकदा शसपुत्राणां मध्ये परीक्षया श्रेणिकं राज्याई मत्वाऽस्य कोऽप्यनिष्ट