________________
( कूपोपरि दसकाष्ठे ) स्थित्वा चतुर्मास कुर्विति तृतीय शिष्य मादिष्टवन्तः । सर्पविलोपरि चतुर्मासं तिष्ठेति चतुर्थमाशप्तवन्तः । अथ गुर्वाज्ञया ते चत्वारस्तत्र तत्र ययुः । राजानं मिसिमे ! साम्प्रतं गुरुनियोगतः स्थूलिभद्रमुनिर्देश्ागारमाययौ । तमागतं वीक्ष्य चिरादुत्कण्ठिता सा गणिका घनागममवाप्य मयूरीव नितरां मुमुदे सादरं चित्रशालायां न्यवासयत् । अथ सा मुनिषेषं त्यक्तुं तमधिकं प्रार्थितवती परं दृढात्मा स नैवाऽमुश्चत् । विषयभोगाय बहुषाऽयतत, हावभावादिना तमलोभयत परं वशीकृतेन्द्रियवर्गः स तामूचे सार्द्धत्रिहस्तदूरे तिष्ठन्ती यदीच्छामुत्पादयिष्यसि तर्हि त्वां सेविष्ये नान्यथेति निगद्य पुष्करपलाश्वत्रिलिप्तः स तद्गृहे चतुर्मासं तस्थिवान्र । अथ सा वेश्या प्रतिसन्ध्यं नवं नवं महापुष्टिकरं मदनोकिरमाहारं भोजयन्ती नानाविधहावभावं वितन्वती कटाक्षयन्ती तन्मनश्चालनवरासीत् परं मनागपि तन्मन चाञ्चल्यं न प्राप । मेरुमिव निश्चलं तं वीक्ष्य सा चकिता जाता जगाद च अहो ! सैवेयं चित्रशाला तान्येव चित्रितानि चतुरशीतिसम्भोगाऽऽसनानि । स एवासौ यः पुरा वारितोऽपि क्षणं माँ न त्यक्तुमिच्छति स्म । सम्प्रति मयैचमर्थितोऽपि मदनतरं संयमकुठारेण समूलमुच्छि मेरोरप्यधिकं मनः स्थैर्य प्रकटयते । अथ चमत्कृता सा कोशा वेश्या तदुपदेशतः शुद्धा श्राविका जाता द्वादशवतान्याददे ।
अथ चतुर्मासानन्तरं तस्या आइया स्थूलिभद्रमुनिर्गुर्वन्तिकमाजगाम | गुरुस्तमायान्तं विलोक्य तदभिमुखमेत्य वारज greरकारमदा । तदनु द्वितीयः सिंहगहरवासी चतुर्मासोपवासी शिष्य आगात् । तस्मै सकृद्दष्करवादं दत्वा सुखशातमपृच्छत् । तथा कूपोपरि तिष्ठन् कृतचतुर्मासोपवासस्तृतीय आगत स्वमप्येकवारं दुष्करकारदानेन सचक्रे । एवं सर्पबिलोपरि चतुर्मास स्थित्वा समागतः चतुर्थशिष्यमप्येकवारं दुष्कर इत्युबार्य भावितवान् । अथ मिथो मिलितेषु चतुर्षु स्थूलभद्रस्पर्धालुः सिंहगुहावासी मुनिर्म
sert