SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 2 सि शशके नूनं सैव दुष्टा भविष्यति ! या मां जले पातयामास । पुनस्तत्रावसरे रामा निजसेवक सम्प्रेष्य सा समाकारिता । तदानी की- मनसि जहर्षाऽचिन्तयक्ष सा यदय गीतमाकण्यं माश्च विलोक्य राजा प्रसन्नो भूत्वा यथेष्टं दास्यति । अथ तावुभौ नृपसदसि | EME समेतौ गातुं लग्नश्च पास्तद्गीतमाकर्ण्य नृपोऽवदत् __ चने रुधिरमापीतं, भक्षितं मांसभूरुजम् । भागीरथ्यां पतिः क्षिप्तः, साधु साधु पतिव्रते ! ॥१॥ अथ नृपोदितममुं श्लोकं निशम्य सा तत्कालं विच्छायवदनाऽभवत् । तदनु स राजा तावुमौ स्वराज्याभिकसितवान् । | स्त्रियं दुःशीलामालोक्य समुत्पन्नवैराग्यः स पुण्यायो नरपतिश्चारित्रमादाय स्वात्मश्रेयो विधत्सुखी वधूव । भो लोकाः ! पश्यत यदसौ जितशत्रुनरपतिरपि यावद् व्यसन्यासीचावदःखमेवाऽन्वभूत्त्यक्ते च तत्र व्यसने राज्यसुखमाप | ततो मोक्षार्थीभूय संसारमसारममुमत्यजत् । अतो यूयं भ्रमादपि मद्यव्यसनवन्तः कदापि नो भवत । तथा मद्यव्यसनादेव द्वारिकापुरी कृष्णसुरक्षितापि भस्मसादभूत्तस्याः १४-कथानकम्___ अथैकदा श्रीकृष्णो नेमिनायदेशनान्ते तं भगवन्तमपृच्छत-हे भगवन 1 ममैतद्वारिकापुर्या अवसानं कदोदेष्यति । भगवानाह-हे कृष्ण ! एतदवसानं तदोदेष्यति यदा तव पुत्रौ शाम्बप्रद्युम्नौ सुरां निपीय वनस्थं द्वैपायनमुनिमनेकोफ्सर्ग विधाय हनिष्यतः । ताम्यां निहतः स कृतनिदानो मरियति तदनु स एवामिकुमाररूपेण सकला सजनादिकामिमा नगरी मस्मसात्करिष्यति । इति भगवन्मुखान्मधपानेन विघ्नं मंभाव्य पुत्रादिसकलजनान् मद्यपानतो न्यवर्तयत श्रीवासुदेवः ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy