SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ली resist व्यसनीमः परिणीय गोपालपुरमगमत् । तदनु तासां पित्रादिभिरप्येतद्विदित्यौदासीन्यं हेमे । तत्रावसरे गुणसुन्दरी पितर१ ई पण्मासाभ्यन्तरे तं सशोध्यायानयामि नात्र संशयीथाः । यदाह--- उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः, देवेन दयामिति कापुरुषा वदन्ति । ! hi freer कुरु पौरुषमात्मशक्त्या, यस्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १२ ॥ सर्व हि यत्नतः प्राप्यसे तदा तस्यै पुंवेषं समयं शकटोष्ट्रेवनेकेषु क्रेयवस्तुनि भृत्वानेकपरिवारैः सह तां कनीयस पुत्र गुणसुन्दरीं भर्तुः शुद्ध प्रास्थापयत् । ततः प्रस्थिता सा कियद्भिर्दिन गोपालपुरमागात् । तत्र च विशिष्ट रत्नादि लात्वा तत्रत्यनृपायो पहृतवान् । राजा च कुशलप्रश्नादिना सत्कृत्य तस्य निवासाय चैकं महाभवनं समर्पितवान् । तत्र स्थित्वा सुखेन नानाविधं व्यापारमारब्धवान् । अल्पदिनैरेव तत्र प्रख्यातोऽभवद् गुणसुन्दरनाम्ना सर्वे च व्यापारिणस्तत्पार्श्वमागन्तुं लग्नाः । पुण्यसारोऽपि तदन्तिके क्रयविक्रयावालोकितुं लग्नः । तमुपलक्ष्य पुंवेषे व्यापारयन्त्या गुणसुन्दर्या निश्चितम् । यदयमेवाऽस्माकमुवोढाऽस्ति तेन हेतुना तत्साकं महती मैत्री चक्रे । ततः प्रभृति द्वयोर्महान् स्नेहः पप्रथे चैकं विनाऽपरस्मै किमपि न रोचतेस्म । अथ गुण सुन्दरस्य वैदेशिकस्य गुणसम्पन्यादिकमालोक्य सा रत्नवती पितरमवोचत । हे तात! मह्यं गुणसुन्दर एव रोचते, अतस्तमेव शृणोमि तेन सह मम पाणिग्रहणं कारय । तच्छ्रुत्वा रत्नसारश्रेष्ठी निजपरिवारयुतस्तदन्तिकमागत्यैनमनदव हे गुणसुन्दर ! त्वं मम पुत्रीं परिणय । यथा गुणैरुदारैस्त्वं शोभसे, तथैव सापि सकलैर्ललनागुणै रूपैश्च शोमते । तदाकर्ण्य मनसि सोऽचिन्तयत्- हा दैव ! स्वया प्रथमं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy