SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ पुण्यसारेण तदालोकि, अथान्यदा तदादाय ते पुण्यसारेग हारितम् । कियदिनानन्तरं रामा मागिते तस्मिन् पुरन्दरो गृहमागत्य तत्र मजूषायां समुदघाटितायां समाऽपश्यदा स पुण्यसारमपच्छत । हे पत्र ! मयान त्वत्समक्षे राजकीयमाभरणं स्थापितम् । परमत्र तम पश्यामि कि त्वया नोतं तत् ? नृपोऽध मार्गयति-पुत्रोऽवक्--मयैव गृहीतम् । तदा पित्रोक्तं तदानीय देहि राजे देयमस्ति । पितुर्वचनं श्रुत्वा तदैव स निजगृहाचिन्तातुरो निरगच्छत् ग्रामावहिरागतः स सन्ध्यां विलोक्य निशि झुत्र कथं ब्रजेयमिति विचिन्त्य तकस्य वटवृक्षस्य कोटरे समुपविष्टः। इतश्च निशि पुत्रमपश्यन्ती तन्माता श्रेष्ठिनमवक्-सामिन् ! पुण्यसास क गतः । श्रेष्ठी न्यगदत । मया राज्ञो लक्षमूल्यकमाभरणं स्थापितं तत्तेनाऽपहृतमतो मवैव शिक्षार्थ निष्काशितः। हा ! रात्री त्वया पुत्रो निष्काशितो धन्योऽसि, याहि, सत्वरं संशोध्य पुत्रमत्रानयेति भायोक्त्या पुरन्दरः स्वयमेव सर्वत्र संशोधितुमलगत् । सर्वत्रैवान्विष्टोऽपि कुत्रापि तच्छुद्धिर्न लब्धा । इत्थं पुत्रं शोधयतस्तस्य सकला रजनी निरगात् । यदा नगरान्तस्तस्य शुद्धिर्न लब्धा सदा श्रेष्ठी प्रभाते जाते नगराबहिरितस्ततस्तं संशोधयबासीत् । इतश्च यभृक्षकोटरे स सस्थिवान, तक्षोपर्यागते द्वे स्त्रियो मिय एवमारपितुं लमे। यथा तयोरेकाऽचक्-अपि सखि ! अध मे कस्याप्यमृतकौतुकस्थ दिक्षा वर्तते। द्वितीयावदत कुत्र' साध्वक्-सखि ! इतश्चतुःशतक्रोशोपरि बल्लभीपुरनगरं वर्तते । तत्र धनप्रवरनामा महर्षिक: श्रेष्ठी निवसति, तस्य समपुत्र्यो विद्यन्ते । ता युवतीः पश्यता पित्रा वरचिन्तां कुर्वता लम्बोदरो देवः समाराषितः स प्रत्यक्षीभूय तमबोचत । अमुकमासे अमुफतिथी निशि प्रथमयामे नगरद्वारे स्त्रीद्वयागमनानन्तरमेक: पुमान महामाग्यवान सकलगुणवानागमिष्यति तस्मै त्वया सप्तैव कन्या पेयाः । इति हेतुना स सकलो विवाहसामग्री सबीचके
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy