SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पादाहतं यत्थाय मूर्धानमधिरोहति । स्वस्थादेवाऽपमानेऽपि देहिनस्ततूरं रजः ॥ १० ॥ इति परमेषा तत्कृता प्रतिज्ञा तामपरिणीय कदापि न गन्तुमर्हति पुनस्तदुद्वाहस्तु दैवायत्त इति हेतोस्तस्य पुण्यसारस्याऽधिकं वैलक्ष्यमभूत् । अत्रावसरे तत्पिता पुरन्दरो गृहमाययौ । भोजनसमये समाकारितोऽपि पुण्यसारः कुत्रापि केनाऽपि न लक्षितस्तदा erria श्रेष्ठतस्ततः शोधयनेकान्ते त्रुटिते मञ्चके विलक्षवदनं सुप्तं तमपश्यत् । तदा पित्रोक्तम्-वत्स ! उत्तिष्ठ, भोजनं कुरु, अद्य . कि जाते, देना नषः सुतो : तेनोक्तं- हे पितः १ स्वं याहि युङ्क्ष्वामिदानीं न भोक्ष्ये । पिताऽवक् कथम् १ पुत्रोऽगदत - हे पितः ! मयाद्य प्रतिज्ञातम् - यात्रद्रत्नवतीं न परिषेष्यामि तावदन्नोदके न ग्रहीष्यामीति । यावदियं प्रतिज्ञा में न पूर्वेत तावत्कथं भुञ्जीय १ अत एनामपूरयित्वा प्राणात्ययेऽपि भोजनं नैव कुर्यामिति तथ्यं विद्धि । तच्छ्रुत्वा पित्रोक्तम्- हे वत्स ! इदानीम समय वर्ततो यत्नेन विद्याभ्यासः क्रियताम्, परिणयनकाले प्राप्ते त्वदनुकूलया तयाऽन्यथा वा सह ते लग्नं कारयिष्यामि । इदानीमुदि भुज्यतां पुत्रोऽवदत्-पितः । तामुद्वावाऽशिष्यामि । श्रेष्ठी जगौ वत्स । एतदाश्रहं त्यज किं त्वत्कथनेन त्वां परिणायिष्यामि ? मम तु स्वत एव महसीच्छा वर्तते तव लग्नार्थम् । पुण्यसार आख्यत - पुत्रपरिणयेच्छा पितुर्भवत्येव । मया त्वेषा प्रतिज्ञा कृतास्ति यद्रत्नवत्याः पाणिग्रहणं कृत्यैवाऽशिष्यामीति । प्रान्ते पित्रोक्तम्- हे वत्स ! उतिष्ठ भोजनं कुरु । तस्याः पितुः पार्श्वङ्गत्या स्वदुक्तं साधयिष्यामि । तदनु पित्रा सह गत्वा पुण्पसारो बुभुजे । अथ पुण्यसारः पितरमवादीत् - हे पितः । त्वमिदानीं तत्र गच्छ, कार्य साधय । यदा पुरन्दर श्रेष्ठी बहुयोग्यपरिवारयुतो रत्नसारगृहमाययौ । तमायान्तं विदित्वा रत्नसारस्तदमिमुखमा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy