SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ बली ॥ महादजी साष्टात् । तृतीये मासे श्रेष्ठी स्वामिवात्सल्यं, सङ्घपूजनं जिनेन्द्राराधनं महामन चक्रे । तथा सप्तक्षेत्रयां यथाशक्ति धनान्यदात पुण्यश्रियाश्च गर्भप्रभात्रत उत्तमा दोहदा अभूवन् सर्वे च वे श्रेष्ठिना पूरिताः । तदनु दशमे मासि शुभमुहूर्ते स्वोवस्थानैकसवग्रहे सा पुण्यश्रीः पुत्रमजनिष्ट श्रेष्ठी महोत्सवं कृतवान् । ततस्तस्य पुण्यसार इत्यभिधानमकरोत् पञ्चमाब्दात्परं तं लेखकशालां प्रावेशयद । स चाऽचिरेण कालेन पुंसो द्विसप्तति'कलाकुशलोऽभवत् । तत्रैव नगरे रत्नसारनामा श्रेष्ठी वर्तते तत्पुत्री रत्नवत्यपि तस्यामेव शालायामागत्य पठति स्म । अथैकदा तथा सहकेन हेतुना पुण्यसारस्य कलहो जावो. द्वयो: हुङ्कारतुङ्कारादिकममवत् । छात्रैर्वारिते तयोः कलहो यदा न न्यवर्तत, तदा शिक्षकाः समेत्य तौ वारयामासुः । तदा पुण्यसारस्तामुवाच - हे रत्नवति । त्वं ग मा कुरु, नूनमहं त्वां परिणीय दासों करिष्यामि, एषा मे प्रतिज्ञा'भूत् । एतत्सत्यं कृत्वैव स्वस्थीभविष्यामि तयोक्तं कदाप्यहं त्वाश र गुणहीनं न वृणुयाम् । त्वाच्शास्तु मम गृहाणि मार्जयन्ति जलाहारका भृत्याश्च विद्यन्ते स्वप्नेऽप्येष से मनोरथो न सेत्स्यति । तदा पुण्यसारोऽवदत्- नूनमहमेव त्वां परिणेष्यामि, अत्र मनागपि सन्देहं मागाः । ततःप्रभृति तावेकत्र पठन्तावपि मिथो भाषणादि नाऽकुरुताम् । अथ पुण्यसारः स्वमन्दिरमागस्य चिच्छायमंदनः कुत्राप्येकान्तप्रदेशे तस्थौ । मात्रादिपरिवारैः सह नवदति स्मन व मुङ्क्ते । केवलं तामहं कथं परिणीय कृतां प्रतिज्ञां पूरयिष्यामीति विचार सागरे -निमग्नस्तथा रत्नवत्यास्तादृग्वाग्बाणैरनुष्ठतः शिखापर्यन्तं विद्धः किङ्कर्त्तव्यविमूढ इवाऽदृश्यत यदाह-' उनतो न सहते तिरस्क्रियाम् । अन्यथ
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy