________________
अथ १० - द्यूत विषये - द्रुतविलम्बित-वृत्तम्
सुगुरु देव जहाँ नवि लेखवे, धम विनाश हुवे जिण खेलवे । भवभवे भमवूं जिण ऊवटे, कहि वि कोन रमे तिण जूनटे || २३ ॥
1
द्यूतव्यसनी पुमान् विशुद्धेषु देवगुरुधर्मेषु रागं न कुरुते, सन्मार्ग नाश्रयति, सर्वतोऽपि भ्रष्टीभूय धूतरमणसमासक्तमना धनानि गमयति । संसारसागरान्मुको भवितुं नाहतेि । अनन्तकालपर्यन्तं भवाम्बुध बुडमेव क्लेशपरम्परां सहते । यद्रमणेन युधिष्ठिरादयो महापुरुषा अपि राज्यदारादिकं हारयामासुर्वनवासादिक्केशमपि सेहिरे । सर्वे श्रुता दृष्टा ये दोषास्तं धूर्त रममाणस्यैव वर्तन्ते | अतः श्रेयोऽर्थिना मतिमता तस्याज्यमेव ।। २३ ।
श्रुतरमणस्यागात्सुखीभवतः पुण्यसारस्य ९-कथा
1
यथा-इहैव भरत क्षेत्रे गोपालपुरनगरे घनद इवासीमसम्पत्तिमान् राजप्रमुखसकललोकमान्यः पुरन्दरनामा श्रेष्ठी निवसति । तस्य मार्या शीलगुणमण्डिता पुण्यश्रीर्वर्तते । परं सकलसमृद्धिसम्वेऽपि तयोर्दम्पत्योः पुत्रार्थं महती चिन्ताऽऽसीत् । अथैकदा पुत्रार्थी स श्रेष्ठी लोकोच्या धूपदीपा दिनानोपचारैर्निजगोत्रदेवीमारराध । किय हिमाम्येवमाराधयतस्तस्य सा तुष्टा देवी प्रत्यक्षीभूष जगाद वत्स ! किमीइसे १ तन्मार्गय तदा श्रेष्ठी देवीं पुत्रमयाचत । अथ तथास्त्वित्युदीर्य देवी निजस्थानमगात् । स्तोकेनैव दिनेन तत्पत्नी गमं दधार तत्प्रभावतः सा निशि सुस्वममपश्यत् । ततो जागृता सा तत्फलं पतिमपृच्छत् । विचार्य सोडवत्र हे प्रिये ! तव गर्भे