________________
| नास्ति तदैतन्मात्रमेव श्रुत्वा सहस्रमल्लो जगाद-भगवन ! भवदुपासको भवदग्रेहमेव शूरस्तिष्ठामि । योऽहं नृपादेशात्परैरग्रायं सुदुष्टं
कालसन्दीपनमेकाक्येक बध्वा नृपान्तिकमनयम् । इत्थं मयि शूरे विद्यमाने नास्ति कोऽपि शूर इति किं धूपे? तत्रावसरे गुरुणोक्तम्___अप्पा व दमेअव्वो, अप्पा हु खलु दुबमो। अप्पा दंतो सुद्धी होइ, अस्सि लोए परस्थ य ॥९॥
अयमोऽस्या गाथायाः-भो! आत्मा एव दमितव्यो वशीकर्तव्यः, हु इति निश्चयेन खलु यस्मात्कारणादात्मा दुर्दमो दुर्जेयो वर्तते आत्मानं दमन जीवोऽस्मिन लोके परत्र-परभवे च सुखीभवति । यतः परेषां दमनेन शौर्य न जायते यो हि निजेन्द्रियः । सह निजात्मानं जयति, स एव शूरो निगद्यते । इति गुरूकं श्रुत्वा सञ्जातविषयमुख्यः सहस्रमल्लस्तदैव तस्यैव गुरोः पार्थे | चारित्रं ललौ। पुनर्विहरन स्वपरात्मानं पुनानः कालसन्दीपननगरमागत्य कायोत्सर्गध्यानमाश्रित्याज्य इव निश्चलस्तस्थौ । ___अथ रथवाटीतः परावर्तमान। कालसन्दीपनरतत्र तथावस्थं तमालोक्य सम्यगुपलक्ष्य च मनसि व्यचिन्तत--अरे ! स एवाऽयमत्रागतो दृश्यते धर्मधूर्तः, यः पुरावाऽऽगत्य मा बध्वा नृपान्तिकमनवदेष एव मे वैरी। न जाने पुनरपि किमपि विधातुमेतद्वेषेण समागतो भवेदतो वध्य एवेति ध्यात्वा सेवकानादिशद्-भो ! एनं घातयत । ततस्ते लोकास्तकालमेव शस्त्रैरसर्लोष्ठेई- | ण्डैध ताडितुं लमाः । परमेवं महोषसर्गेऽपि सहस्रमल्लो मुनिस्तेभ्यः किश्चिदपि न चुकोप न वा मनसि खेदं चकार, किन्तु सर्व
समभावेन सेहे | ततः क्रमशः क्षपकश्रेणीमारूढोऽतकृत्केवलीभूय मोक्षमियाय । ईदृशां साधूनां सदैव षट्कायजीवैः सह मैत्री | तिष्ठति अत ईशसाधुभिरेव मैत्री कार्या । किश्व