SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 11 यावत्सा प्रसभा न भविष्यति तावन्मं मनोऽपि स्वस्थं नैव स्यात् । मम तु तत्प्रसादकृते कृता यत्नाः सर्वे वैफल्यमीयुः त्वं मे स्निग्धः सरवाऽसि, अतस्त्वदुपायेन सा प्रसन्ना भविष्यति । अतस्त्वं आजायां प्रसादय, येनाऽहमपि सुखी स्याम् । तदुक्तमाकलय्य कषिनाचिन्दिना हि सर्वस्यापि वलहादिक्केश मोचयन्त्येव, मम त्वसौ परमस्नेही सखा वर्तते । एतदीयदुःखन्तु मोचितव्यमेवेति विसृश्य तमद - सखे ! चिन्तां मा कुरु त्वरितमहमवश्यमेव केनचिदुपायेन तां प्रसादयिष्यामि । परं सा जले तिष्ठति, मित्र ! तत्र मे गमनं कथं भविष्यति १ राच्छ्रुत्वा मकरोदक- तत्राऽहं त्वां सुखेन नेष्यामि त्वं मम पृष्ठे समारोह, तत्राsहं स्वामक्लेशेन शीघ्रं नयामि । ततः कपिस्तत्पृष्ठोपर्युपाविशदथो मकरस्तं नीत्वा हृदि मुदमावहन् स्वस्थानं प्रत्यचलत्कियद्दूरं गत्वोवाच- हे सखे ! मम मकरी तब हृदयं बुति । सा सगर्भा वर्तते तस्या ईगेत्र दोहदः समुत्पन्नोऽस्ति । तच्छ्रुत्वा कपिर्दथ्यो अहो ! मया त्वस्यातिमिष्टानि फलानि भोजितानि । तत्प्रतिपले त्वेष खलतामेव प्रकटयन् मामेव जिघांसति, अतोऽसौ स्वबुद्धया वञ्चनीयस्तदैव जीविष्यामीति विश्वार्य प्रत्युत्पन्न बुद्धिः कपिर्विहस्यावोचत । मम भ्रातृजाया महृदयं युयुक्षति चेत्का हानिः १ सहर्षमह दास्यामि । परमेतवया तत्रैव कथं नोक्तम् १ यतोऽहं हृदयं वृक्षोपर्येव स्थापितवानस्मि, ततस्तत्र गत्वाऽपि तस्यै कि दास्यामि १ अतो मां पश्वाचीरं नय । तत्र गत्वा हृदयं लाला सत्वरमागमिष्यामि ततस्ते पत्न्यै दच्या प्रसादविष्यामि । निर्बुद्धिर्मकरस्तदैव तटमाययौ, कपिस्तूत्छत्य वृक्षमारुरोह । विश्विद्विरम्य मकरेण समाहूतः कपिरवादीद-रे विश्वासघातक खल ! त्वं जलचरोऽहं च भूचर इति स्वया सह मम का मंत्री ? मया ते यन्मधुरं फलमेतावद्धोजिटं तत्फलमदर्शि । त्वन्तु मामेव जिघांससि, याहि याहि ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy