________________
स्म-राजन् ! श्रूयताम-त्वं भवान्तरे हिमालयचूलिकायां सुदत्तनगरे 'कणवी' जातौ धनानिधो बभूविथ, पुनस्तव चतस्रो मार्या | आसन पूर्व धनधान्यादिसमृद्धिमानभूः । पश्चात्पुरावतकर्म योगाद् दारिद्रयवाजातः परमेकदा पथि चौरलुण्टितवस्त्रपात्रादयश्चत्वारः । सत्यसाधवस्तत्र नगरे समाजग्मुः । तेभ्यस्त्वं भक्या पात्राणि, वस्त्राणि प्रासुकाहारांश्च ददिथ, तब चतसृमिश्च पत्नीभिस्तदनुमोदिसं, तेन हेतुनाऽत्र भने सुसमृद्धिमान त्वं राजाऽभूः । चतुर्मु निदानपुण्याद्राज्यचतुष्टयं लब्ध, चततः प्रेयस्योऽप्यभूवन पञ्चामूल्यरत्लानि मिलितानि । कि बहूक्तेन यानि यानि लोके श्रेष्ठानि वस्तूनि वर्तन्ते तानि सर्वाणि त्वया लब्धानि । परमेतत्सर्व साधुदान पुण्ययोगादेवात्र भवे लब्धमवेहि । मवान्तरे स्वयैकः कीरः पञ्जरे क्षिप्तस्तेनाऽत्र भषे त्वमपि शुकीभूय पञ्जरेऽवात्सीः, भवान्तरे स्वमेकदा कञ्चन साधुमालोक्याऽसौ मत्स्य इव दुर्गन्धिरस्तीति निन्दितवान् । तदुत्थकर्मयोगादिह जन्मनि त्यमपि समुद्रे पवितश्च । मकरण ग्रस्तोऽभः । पुनः साऽनङ्गसेना भवान्तरे महासुन्दरी सपत्नी हास्येनाऽनेकधा तद्रूषाधिक्यागणिकामचीकथदतः साप्यस्मिन् भवे वेश्याऽभूत् पूर्वभवपत्नीनेहादत्रापि तदशोऽजनि । इत्याकर्ण्य सनातसंसारखैराग्योऽथोत्तमनृपः पुत्राय राज्यं दचा तदैव तत्केवलिपार्श्वे दीक्षामादात । उ तपश्चरमध्युपि सम्पूर्णे कालं कृत्वा देवोऽभवत् । ततश्युत्वा महाविदेहक्षेत्रेवतीर्य कर्माणि क्षपयित्वा मोक्षं लप्स्यते । भो भो लोका! असारेऽस्मिन्संसारे भवन्तोऽपि स्वस्त्रद्रव्यस्य सदुपयोगं कुरुत, यतो निर्धनोऽप्युसमकुमारोभवान्तरे सुपात्रदानमदात्तेनात्र भवे महती राज्यसमृद्धिं सुखसंपत्तिं च प्राप । अतस्तद्वद् यः प्राणी निष्काम धनं सुपात्रक्षेत्रे. वपति यस्यति च स तद्वदेवात्र परत्र सुखी भवति भविष्यति च ।
MEk24