SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगमिष्यति, तस्मै राज्यमिदं दत्त्वात्महित साधनीयम् । ततः प्रभाते तमागतमालोक्य सादरं तस्मै स्वराज्यं दत्वा महासेनो राजा श्रीचन्द्रशेखरमरिनिकटे दीक्षितो भूत्वा मुनियमेन संयम परिपाल्य सुदुस्तरमपि भवाब्धि स्वरितमेव ततार । इत उत्तमः क्षितीशस्तत्र कियकालं स्थित्वा निजपुण्यप्रताप सर्वत्र प्रसार्य चहन्देशान् जिगाय । अथैकदा सिन्धुसौवीरनगराधीश निजाज्ञामुरीकर्तुं दूतमुखेनोचमः क्षितिष इदं न्यगादयस् यथा-यदि मदादेशमुरीकरोषि तर्हि कर देहि नो चेत्समराय समुद्यतो भवेति । यदा सदाझा स नोररीकृतवान् तदा मन्त्रिण राज्यकार्ये नियुज्य चतुरक्षौहिणी सेनामादायोत्तमनरेशः सिन्धुसौवीरपुरीपरिसरमागत्य तस्थौ । तत्र द्वयोस्तुमुले संगरे प्रवृत्ते निर्जितो वीरसेनो नृप उत्तमकुमाराय राज्यं दत्त्वा सहसपुरुषः सह चारित्रं ललौ। तदनु। क्रमशः स उत्तमभूपालो वाराणसीमागात पिता च तदभिमुखमेत्य महता महेन पुरीं प्रावेशयत । तस्मिन्नेव दिने पुत्र राज्येऽभिपिच्य मकरध्वजो नृयो दीक्षा ललौ । इत्थमुसमनृपस्य चत्वारिंशल्लक्षकोटियामा बभूवुः । चत्वारिंशतक्षमिता गजाश्वाथाऽऽसन् | तावन्तो स्थाः पदातयश्च । इत्थं चतुरङ्गबलयुतो प्राज्यं राज्यं न्यायतः परिपालयन सर्वत्र राज्ये वीतरागस्य दिव्यानि बहूनि चैत्यानि, प्रतिवर्ष रथयात्रामहोत्सवमकरोत् । प्रतिग्रामं दानशालाज्ञानशालादिकं कारयन् शाश्वतमहिसामयं धर्म पालयन् । दीनानुद्धरन सदैव धर्मकार्ये तत्परोऽवर्तत। त्रायदोघाने कश्चित्केवली समायातो वनपालेन तदागमे निवेदित तस्मै तुष्टिदानमदादुत्तमनरेशः । तदनु नृपादयः सर्वे पौरास्तं वन्दितुं तत्राऽऽजग्मुः । देशनान्ते राजा पृष्टम्-भगवन् ! भवान्तरे मया किमकारी येनात्र भवे चैतावती समृद्धिराता ? केन कीरखमितः १ केन कर्मणान्धौ पतितः ? केन चाऽनंगसेनागणिकायाः वशंवदोऽभृवं तत्प्रकाशं कृपया कथय । केवली वदति
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy