________________
क्ली
मणिरत्नमयीं मुद्रिकां प्रक्षाल्य तदङ्गमसित् तत्क्षणञ्च विषमुक्तः कुनार उदतिष्ठत् तदैव सा गणिका कुमारं निजभवनमानी - तवती । तत्र चतुर्थ्यां भ्रम चित्रशालायामस्थापयत् तया सह स विषयसुखं स्वैरं भुङ्क्ते । इत्थं स स्वस्तिमान् सुखमनुभवति राजन् ! स्वस्त्यस्तु ते मुञ्च मां यदहं वनं गत्वा सुखेन फलादिकं खादामि । तव सुखमस्तु यतस्त्वं सत्यवक्तासि । मम राज्येन कि प्रयोजनम् ? नाई सदिच्छामि । किन्तु राजन् ! अन्यदपि किञ्चिच्छृणु - लोकास्तानेव वैद्यानभिलषन्ति ये धर्मार्थ रोगानपहरन्ति धनं नेच्छन्ति ये च रोग शमयित्वा ततो धनमिच्छन्ति, ते महामूर्खाः । अहमपि तथैव भवामि, यत्सर्वं स्वत्कार्य संपा भवतो राज्यमाशासे । एतदाकर्ण्य नृपस्तमेवमत्रदद् भोः कीर! स्फोटके स्फुटिते पिवैरायते इति दृष्टान्तं जगदि तदधुना न घटते । यदेतत्प्रत्यक्षमन्तरा कथं प्रत्येमि १ तदा शुक्रः पुनर्जगाद - राजन्निदानीमेव गणिकागृहं गत्वा तं विलोकय । राजा तदैव प्रधानादिकतिपय परिवारः सह तत्र गत्वा सर्वत्र विलोकितवान् परं कुमारं यदा कुत्रापि न दृष्टवान् । तदा पश्चादागत्य फीरमवदत् - दे कीर ! त्वमेवं मां सुधा कि वञ्चयसि १ वञ्चनमात्रेण तब को लाभो भविता ? कीरो निगदतिस्म
-
स्वामिन् ! नाहं वश्चामि परमत्र कारणं निशम्यताम् - या गणिका कुमारं सज्जितं कृतवती सा दध्यों । एष राज्ञो जामाता नात्र स्थास्यति तर्हि मम प्रयत्नो वैफल्यं वजिष्यतीति विचिन्तयन्ती सा मन्त्रवलेन कुमारं कीररूपं विधाय तबरणे सूत्रमवशत् । यदा तेन सह सा रिरंसति तदा तत्पदात्सूत्रमपनीय नैसर्गिकं रूपं विधते । ततः पुनः सूत्र बत्रा कीरं कुरुते पुनरुडधनशङ्कया d पिञ्जरे स्थापयति । इत्थं तत्कृतकीरत्वमापन्नः सोऽहमुत्तमकुमारो दध्यौ मया भवान्तरे कीदृशं कर्माऽकारि येना मवे नरो भूत्वापि पक्षित्वं यातोऽस्मि । तथा राक्षसराजपुत्र महालतां छनं परिणीतवान् । इत्याद्यवटिताऽऽचरणयोगादिदानीमी डग्दुःख
➖➖➖➖➖
--