________________
सम्यक् पाठिता चतुष्षष्टिकलाकुशला शैशवात्परं वयः प्रपन्नास्ति, कस्मैचिद्योग्यवराय तां दत्वा संसारविमुखः श्रेष्ठी चारित्रं जिघृक्षति स चैकदा नैमित्तिकमाहूयाऽपृच्छत् ।
भो निमितज्ञ ! मम पुत्र्याः को भर्त्ता भविष्यतीति । तेनोक्तमद्यतन दिनात् त्रिंशत्तमे दिवसे तव पुत्र्या वरो मिलिष्यति स सार्वभौमो भविष्यति । तदुक्तदिनावधारणं सत्यं मन्यमानः स पुत्र्या लग्नसामग्री सकलां सज्जीकृत्य महामहं वितनुते । विस्तृ सुरचिते मण्डपे मङ्गलगीतं प्रावर्तत तथा करमोचन कालिकजामातुप्रदानार्थं गजतुरगरथ सुखपालवसनाभरणादिसर्वमपि सज्जीचक्रे । एतत्सकले पुरे प्रख्यातमस्ति तेन सर्वेषामाश्वर्यं लगति यद्वरं विना विवाहसामग्रीमखिलामसौ श्रेष्ठी सज्जयामास । इतोऽन्यदाश्चर्य किं स्यात् ? राजाप्येतत्स्वरूपं ज्ञात्वा चकितोऽस्ति । स्वयं महेश्वरदत्तः श्रेष्ठी कन्यां विवाह्य दीक्षाजिघृक्षां धत्ते । तेन तस्मै धन्यवादमपि नृपो ददानो विचारयति संसारविमुखीभूत अहो ! यदा जामाता मे मिलिष्यति तदैव तस्मै राज्यं समर्प्य प्रवजिष्यामि । ततो नृपो महेश्वरदसश्रेष्ठिनं समाहूय तेन सह सर्व विमृश्य नगरे पटहमवीवदत यथा - " यो हि त्रिलोचनाभर्तुः शुद्धि महालसाया मूलत निगदिष्यति तस्मै राज्यं श्रष्ठिनः पुत्र सहस्रक्लाश्च दास्यामीति । " अथ देवज्ञकथित विवाहदिवसे चैका कीरः पटहं स्पृशत्र नृभाषया राजपुरुषमवादीत भो ! अहं नृपं सर्वं कथयिष्यामि कथिते च तयोर्लाभो मे स्यात्, अहो ! ममापि भाग्यमुद्बभूव । कीरवाचमीशीमा जननी माकर्ण्य से तं नृपान्तिकं निन्युः । तदा कीरो राजानमवक्- राजन् ! अहं त्रैकालिकज्ञानवानस्मि । अत्र सदसि त्रिलोचनां महालसायानीय वसनादिना व्यवहितां स्थापय सदा सर्वमामूलं गदिष्यामि राजापि तथैवाऽकरोत् । कीरो विचारयतिराज्येन मे प्रयोजनं नास्ति परं महालसायास्तन्वं कथनीयमस्ति । इति ध्यात्वा कीरो वदति - राजन् । निशम्यतां यथा
2X2018: