SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ दधिणा मर्दितो मण्डूको मृतः । तस्मावतत्पापाऽपनोदनाय भवानीर्यापथिविधि प्रतिक्रम्य तदालोचनं करोतु । गुरुषोत्तम्गच्छ गच्छ मत्पादतले नैव कोऽपि दर्दुरो मर्दितः । तदनु गोचरी लाला स्वस्थानमागतो गुरुस्तात्कालिक गमनागमनमानोचितवान् । तदापि शिष्येण तस्मिन् स्मारिते गुरुरूधे-अरे ! मुहुर्मुहुनिष्फलं किं पे ? मत्पादतले कापि किमपि नैव पीलितम् । तदा शिष्येणाऽचिन्ति-इदानीमनवकाशतो नाऽकारि, सायन्तनप्रतिक्रमणसमय एतत्प्रायश्चित्तमालोचिष्यते । तऽपि प्रतिक्रमण समाप्प गुरुस्तत्पापं यदा नाऽऽलोचितवांस्तदा शिष्यो मनसि दध्यौ । एतस्य गुरोः शिरसि पश्चन्द्रियहत्याऽलगत संयमश्वास्य दृषितो भवति । गुरुयुद्धत्वाम बुध्यत अतो भया तद्विजानताऽसी दोषमुक्तो विधातव्यः, नो पेन्ममाऽप्यतिचारो लगिष्यतीति विचार्य तत्रावसरे शिष्य स्तत्स्मारितवान् । तदा गुरुर्महाकोषं कृत्वा निजौघां गृहीत्वाऽतिवेगेन शिष्यं ताडयितुमघावत । धिक् कोप! येन रजोहरणेन जीवा रक्ष्यन्ते तेनैव स शिष्यजीव घातयितुमैच्छत् । तत्रावसरे गुरुभयेन सोज्पन्न पलायितः, तत्पृष्ठे धावन् । स गुरुनिशि तमोबाहुल्याकेनचिदपि स्तम्भन मर्मणि हतो दुयानेन मृत्वा ज्योतिषदेवोऽभवत् । ततश्युत्वा चण्डकौशिकनामा | तापसोऽभूत् स फलपुष्पमयमुपवनमकरोत । तत्र क्रीडन्तो नृपकुमाराः प्रत्यहं तमुपदुद्रुवुः, निवारिता अपि दुरास्ते यदा न न्यवर्तन्त, तदा स तापसः कुठारमादाय तान्प्रत्यधावत । तेषु पलायितेपु कर्मयोगात्कुत्रापि गते पतन कुठारेण वक्षसि हतस्वापसो ध्यानेन मृत्वा महाकायो भीषणो नागोऽभूत् । तस्य विषज्वाला महती जाता सच लोकान् दृष्टिमात्रेणापि भस्मीकर्वाऽऽसीत् । ततो लोकास्तन्मार्गमप्यत्यजन् । अथैकदा तेनैव मार्गेण गच्छन्महावीरस्वामी सर्पभीति निगद्रिलोकः प्रतिषेधितोऽपि तस्य विलोपरि कायोत्सर्गध्याने तस्थिवान् । तदा विलाद बहिरागतश्चण्डकौशिको महादिविषज्वालामुद्वमन वीरप्रभोश्चरणं दर्दश, परं स
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy