________________
मार्गय, यचं याचिच्यसे तदवश्यमई ते दास्यामि तत्र शङ्कांमा कृथाः । ममाशोकवाटिकायां गृह वा याहि मनसि समालोच्यावाऽऽ. गच्छ । सतो नृपोक्तमाकर्ण्य तत्र गत्वा स चिन्तति स्म तथाहि-नृपो मे यथेप्सितं दित्सति मया किया कि याच्य ? शतं द्विषत पश्चशत सहस्रमयुतं लक्षं कोटिपर्यन्तमघावचन्मनः परमथाऽपि तृष्णां न जहौ । ततोऽप्यधिक दधार किमधिकं तद्राज्यजिघृक्षाप्युदपद्यत । प्रान्ते कुत्रापि मनःस्थैर्यमनधिगत्य मनस्येवं दध्यौ-सर्वा अपि सम्पदा क्षणिकाः सन्ति । मामेते विनश्वराः पदार्या | हास्यन्ति, किमहमप्येताच त्यक्ष्यामि ? इत्थं शुभकर्मोदये भवप्रपञ्चेषगते संयमरसलीनो व्यचिन्तत्तदा कपिलः । तथाहि
जहा लाहो तहा लोहो, लाहा लोहो पबह । दो मासकणयकर्ज, कोडीए विन निट्टियं ॥१॥
प्राणिनां यथा यथा लामो भवति, तथा तथा लाभाल्लोभो वर्धते । सत्रै दृष्टान्ततया दर्शयमाह-दो मासेति पुरा मापद्यमात्रस्वर्णकृते ममाऽऽसीद्या तृष्णा सा कोट्यापि न निष्ठितार्था-तृप्ता नाऽभूत किन्तु ततोऽप्यग्रेऽग्रेऽधिकतया च ववृधे । अतः सैव सर्वाऽधिकक्लेशकरी, केवलमेकः सन्तोष एव जगति सर्वाऽतिशयसुखदायीति मत्वा स कपिलद्विजस्तत्क्षगमेव पञ्चमुष्टिलुञ्चनं विधाय नृपान्तिकमागात् । तदनु यदा नृशय धर्मला दया समस्थित । तदा तं नृपोऽपृच्छत्-भोः ! किमकारि ? तेनोक्तम्-यदादिष्ट भवता तदेव श्रेयस्कर विदित्वा चारित्रमग्राहि । अशोत्याय नृपेण नमस्कृतस्ततो विजडू मार्गे च पंचशतचौरान प्रत्यबोधयत् । तदनु निर्मलमप्रतिपाति केवलज्ञानमाप्य स कपिलमुनिर्मोक्षमयासीत् । तस्येव यो लोभं त्यक्ष्यति स सुखी भविष्यति, यो न | स्पक्ष्यति स महादुःखी भविष्यति नरकादिके च । अतोऽधिकलोभो हेय एव सद्भिः ।।