SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ततः पापोदयात्ससैन्यं चक्रवर्तिचर्मरत्नं तदैव तल्लपणाब्धौ ममज्ज | सर्वे कालं चक्रुः, अहो ! देश अपि यमसेवन्त, तस्यापि | चक्रवर्तिनो लोभाऽऽधिक्यानाशोऽभूत्तर्हि परेषां का वार्ता ? इति हेतोर्महाक्लेशकारी लोभोऽसौ सर्वथैव हेयः । कनक-गिरि कराया लोभी नंदराये, निज अरथ न आया ते हर्या देवतायें। सकल निधि लहीजे स्वायते विश्व कीजे, मन तिणधिन रीझे लोभ तृष्णा न छीजे ।। ५४ ॥ __ अन्यच्च शृणुत-पुरा प्रसिद्धिभाग् नन्दनामा राजा स्वर्णगिरिमकरा परं तस्योपभोगस्तेन नाऽकारि, किन्तु देवरपद्धतः । स तु सृष्णोदधिनिमग्न एव कालेनाध्यासि । सर्वान् निधीन सर्वाश्च वसुधामासाधाऽपि लुब्धस्य मनः कदापि न विमति । किन्तु घृताहुत्या वतिरिवाऽधिकं वर्धत एव ।। ५४ ॥ अथ लोभत्यागात्याप्तकेचलज्ञानस्य कपिलद्विजस्य ४४-कथा-- __ यथैकस्मिन्नगरे कश्चिद्राजा प्रभाते माषद्वयं सदैव स्वर्ण दातुं सङ्कल्पितवान् । तत्स्वरूपं तत्रस्थः कपिलनामा कोऽपि विद्यार्थी विप्रः श्रुत्वा लोभग्रस्तत्वात् कियती राविरवशिष्यत इत्यजानन्मध्यरात्र एव समुत्थाय स्नातानुलिप्सो मृत्वा तल्लातुकामो नृपसौघम्प्रत्यचलत् । मार्गेऽथ रक्षकैश्चौरधिया गृहीतः प्रभाते तं नृपान्तिकमनयत् । अथ परीक्षया नाऽसौ चौर इति निश्चित्य राजा तमपृच्छत् । भोः कस्त्वम् । तेनोक्तं राजन् ! दास्या लक्ष्म्या प्रेरितस्त्वदन्तिकमागच्छन्नहं रक्षकेण तस्करधिया गृहीतोऽ भूवम् । वदाकर्ण्य राज्ञाऽचिन्ति, अहो ! ममैतमगर ईदृशो दरिद्रो वसति । तदनु फरुणया राजाचक्-भो ब्राह्मण ! त्वमीप्सितं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy