________________
*ESS
विषम विष समो ए मान ते सर्व जाणो, मनुज विकल होवे एण डंके जड़ाणो ।
इह न परिबरयो जो मान दुर्योधने दो, निज चल विकाता मानडे वहंतो ॥ ५० ॥ किचाऽसावतिभयंकरो हालाहल इव जनान व्यामोहयति । तथा मानाहिना दष्टा जना अचेतना इन जायन्ते । अतोमानमुक्ता लोका धन्या गीयन्ते । दुर्योधनो बलीयान् गुणवानप्यहङ्कारशादेव सपरिवारो विनाशमगात ।। ५० ।।
__ अथ मानेन विनाशोपरि दुर्योधनस्य ४२-कथातथाहि-पुरा पश्च पाण्डवा दुर्योधनाद्यैः सह कुरुदेशस्याऽधिपा आसन् । परमेकदा मायाविना दुर्योधनेन द्यूतक्रीडने कपटेन पाण्डवाजित्वा तान वनवासिनो विधाय राज्यमाददे । अथ पाण्डवा अपि वनवासप्रतिज्ञामापूर्य द्वारिकामगुः । तत्र ते कृष्णेन सत्कृत्ताः सुखेन तस्थुः । तदनु श्रीकृष्णो दूतेन सुयोधनमेत्रमचीकथत-भो दुर्योधन ! पाण्डवा बनवासाचसानेञाऽजताः सन्ति तद्राज्य समर्पय, नो चेधुद्धाय सज्जीभव । इति दूतोक्तमाकये स दुर्योधनो दूतमत्रदत्-मो दूत ! मदुक्तमशेष कृष्णस्य वाच्यं ययावत्ते पाण्डवाः सिंहान्मृगा इव मत्तो राज्य जिघृक्षन्ति किम् ? तेषामेषाऽऽशा शशशृङ्गायमाणा प्रतिभाति तांस्त्वहं दणाय मन्ये । तदर्थ समराढम्बरोऽपि में पाकर एवास्ति । तथापि ते यदि मचो राज्यमभिलषन्ति तहि समरसज्जितमेव मामवगच्छ । इत्युक्त्वा विसृष्टो इतो द्वारिकामागत्य यथावत् कृष्णमवोचत । तच्छ्रुत्वा तदैव श्रीकृष्णं सारथीकस्य पाण्डवाः प्रचेलुः । तानागवान् वीक्ष्य कौरवा अपि ससैन्यास्तदभिमुखं ययुः । ततो युद्धे प्रवर्तमानेऽखर्वगर्वधरं सुयोधनं ससैन्यं निहत्य ते पाण्डुनन्दना राज्य