________________
•
1 ዘ
पख
J
ततः स्वशिष्यं कृतवान् तस्य च वल्कलचीरांति नाम चक्रे । अथैकदा तथाश्रमे समुपविष्टः स यत्पात्राणि कौतूहलात्पश्य तत्र धर्मक्रियोपकरणं ददर्श । तदनु तदचनपात्र प्रमार्जनादिकं वीक्षमाणः स ऊहापोहाभ्यां जातिस्मृतिमलब्ध । तेन स भवान्तरीयं स्वस्वरूपमपश्यत् । तत्र यसेन चारित्रं पालितं तदपि ज्ञातम् । अत इदानीमपि शुभां भावनां भावयन् स क्षपकश्रेणीमधिरुह्य केवलीभूय मोक्षं प्राप । अतो धर्मभावनाभावनं श्रेयस्करमवसेयं सत्प्राणिभिः ।
पुनरपि भावनोपरि बलभद्र - मृग - रथकाराणां ४०-कथा
तथा हि- द्वारिकापुर्वी कृष्णवासुदेव-बलदेव राज्यं चक्राते । तत्राऽन्यदा तत्पुत्राः शाम्ब - प्रद्युम्नादयो वनं गत्वा बाल्यचापल्याद् द्वैपायनमृषिं लोटयष्ट्यादिना ताडयामासुः । तदाऽतिपीडितः स ऋषिस्तेभ्यः शापमेवं दत्तवान् । भो भो दुष्टाः ! यात यात, मत्पीडां कुर्वतां युष्माकमिमां द्वारिकां नगरीमग्निर्भूला भस्मसात्करिष्यामीति । अथ स ऋषिस्ता निदानकरणेन मृत्वाऽग्निकुमारोऽभूत् । ततः सोऽग्निकुमारो देवस्ती सुदेवलदेव मुक्त्वा पदपश्चाशत्को टिन गरान्तर्वासिलोकैस्तथा पुराद्वहिर्वासिद्विसप्ततिकोटियादवैः सहितां द्वारिकापुरी सकलां भस्मसादकरोत् । तदनु तो कृष्णबलभद्रो वनमुपेतौ । तत्र कृष्णस्तुपा जातस्तदा बलभद्रो जलमानेतुमगमत् । कृष्ण एकस्य तरोस्तले चरणोपरि चरणं निधाय सुष्वाप । तावद्यो हि पुरा स्वेन कृष्णस्य मरणं नैमित्तिकोत्तमाकलय्य तन्मुधा कर्तु वने वसति स्म स जराकुमारः कृष्णबन्धुस्तस्तत्पदे पद्ममालोक्य नृगश्रान्त्या वार्ण शिवा तदीयचरणमविध्यत् । अथ समीपागतस्तमुपलक्ष्य नितरामखिद्यत । तदा खेदेन किं स्यात् १ यद्भाव्यमासीत्तज्बातमेषेति मिष्टवाक्यैः कृष्णस्तमवक् — हे बन्धो ! त्वं मा शोचीः गृहं याहि । नो चेद्वलभद्रः समागत्य त्वां हनिष्यति । किञ्चिदपि