________________
हा परं प्रभोः प्रत्युत्तरमनासाथ प्रभोरुपोषणमस्तीति जानन् गृहमागात् । सम्पूर्णेऽथ तत्र व्रते प्रगे समागतः स प्रभु वन्दनानन्तरमI भ्यर्थयत् । प्रभो ! अब पारणाकृते मद्वेश्म पवित्रीकृत्य लाभो देय इति । यथाज्ञसरमिति प्रत्युत्तरमादाय हष्टः स गृहमेत्य लघु| कपाटसमीपे भगवदागर्म प्रतीक्षमाणस्तस्थौ । अयमागच्छति प्रभूरिति भावयन चिरं तत्रैव तस्थौ। निर्ममः प्रसस्तु कस्यचिदभिनवपूर्णश्रेष्ठिनो गृहमागात् । धर्मानुरागमनधिगच्छन् यथा तथा मिक्षं मत्वाऽश्वाऽशनकृते पाचितं मापं स तस्मै वीरस्वामिने दत्तवान, तावसत्र गगने देवदुन्दुभिर्दध्वान । तच्छ्रुत्वाप्रभुणा क्वचिद्गहे पारणाकारीति तेनाऽवेदि । तदैव भावनावृद्धिस्तस्य च्छिमाऽभूत् । परं पूर्वमेव स भगवदागमं प्रतीक्षमाणो भावनां भावयन द्वादशाऽच्युतदेवलोकपर्यन्तां क्षपश्रेणीमारूढवान् । यदि किश्चि| स्कालमने सा भावना तस्य तिष्ठत्तहि मोक्षमप्याप्नुयात् । परन्तु देवदुन्दुभिध्यानमाकर्ण्य सा भावना तदैव त्रुटिता । अतोऽये || तस्य भावनावद्धिर्नाऽभूत् । इति हेतोविनामाहात्म्यात्म जीर्णश्रेष्टी मृत्वा द्वादशे देवलोके समुत्पेदे । इत्थं भावनायाः सर्वतः प्राधान्यं महाचं चाऽवगन्तव्यं सर्वैभव्यजनैः।
अथ पुनरपि भावनाविषये वलूकलचारिणः ३९-प्रबन्धः___ यथा-पोतनपुरनगरे प्रसन्नचन्द्रस्य राज्ञो भ्राताश्वारूढः क्रीडार्थमुद्यानं व्रजन्नुन्मार्गेण गच्छताऽश्वेन बहु दूरं नीतः सायमपि गेई नाऽऽगात् । सदा राजा लोकैस्तस्य शुद्धि सर्वतः कारयामास, परं क्याऽपि तच्छुद्धिर्न मिलिता। इतश्च स राजकुमारः कस्यचितापसस्पाऽऽश्रमे सम्प्राप्तः । सस्य च कुमारपित्रा सह गाढसंयन्धः पुराऽऽसीत् । तेन स तापसस्तं महता स्नेहेन स्वाश्रमेऽतिष्ठि.