________________
परिणयो भवेत् । ताभ्यामुक्तम्- हे पुत्र ! त्वाभावां तत्पुत्र्या अप्यधिकसुन्दरीं कन्यां परिणाययिष्यावः तत्सार्थ मागाः । परं सर्वानवमत्य स नटेन साकं तद्वेषेण निरगात् । तदनु स तत्सार्थे तिष्ठन् सदीयनृत्यादिविद्यासु नैपुण्यमधिगत्य नाटकं कर्तुं लग्नः । प्रतिदिनमेवं कुर्वन् धनमर्जयित्वा तस्मै नटाय समर्पयत् । अर्थकदा नव्या सह नातटस्गरमगात् । तत्र राजानममिलत्, सोऽपि तस्य नाट्यं कर्तुमादेशश्चक्रे । अथ नृपादिसकलपौरजनसुमण्डितप्रदेशमध्ये एलाचीकुमारो वंशमेकं समारोप्य चरित्वा तदुपरि नाटकं कर्तुं लग्नः । अधश्च नटी मृद वादयामास । तदा नटीरूपं विलोक्य तत्क्षणं मदनशराऽऽहतो नृपो मनसि यद्यसौ नटो नीचैः पतित्वा म्रियेत, तदैनां नीं सुखेन प्राप्नुयामिति दुर्ध्यायन कृष्णलेश्यागृहे न्यपतत् । इतः स नटो वंशेोपरि निराधारादिनानाविधं नाटकं विधाय दर्शकानां मनांसि समरञ्जयत् । सर्व दर्शका रञ्जन्तस्तं नटं प्रशंसयामासुः । ईदृशं नाटकं केऽप्यन्ये कुत्रापि न चक्रुरिति सर्वे द्रष्टारो जगदुः । अथ वंशादवतीर्य नटो राजानं प्राणमत् । नृपश्चैवमवादीत् - हे नट ! अत्र कि तिष्ठसि १ पुनर्वशोपरि चटखा नाट्यं दर्शय । विलम्बं मा कुरु, तदा धिक्तं धिक् तमित्यर्थको ढीगां ढीगामिति मृदङ्गनाद उदपद्यत । अन्ये द्रष्टारस्तस्मै पारितोषिकं ददुः । तद्गुणान् गायन नृपादेशात् पुनर्वंशाग्रे चटियो नटः । सर्वे लोका आश्चर्यमापुः कदाऽसौ वंशाग्रादधः पतित्वा मरिष्यति । इति प्रतीक्षमाणो राजा दुर्ध्यान एव निमग्न आसीत् । द्वितीयबारमपि ना कृत्वाऽघ उत्ती नृप समागतः । तदाऽपि नृपेणोक्तं-भो नट ! सुधा बहुधायः किमवतरसि १ पुनरपि वंशाय एवं नाटकविधानेन सर्वान् रञ्जय । अलमधुना विलम्बेन, मुहुर्मुहुरेवं नृपादेशं शृण्वन्तः सर्वे दर्शकाः स नटव मनस्येवं दष्युः - अहो ! मुहुर्मुहुरस्यैवमादेशकारिणो