________________
सोज्यदाऽदर्शभवने समुपागतः सुखासीनः शरीरशोभा वीक्षितुमलगत् । सर्वाङ्ग शोममानमालोक्य केवलमनामिकामेव मुद्रिकावली-I विहीनतयाऽभव्यामपश्यत् । तदा तेनाचिन्ति सर्वाङ्ग में समषणं शोभते । इयमेकैवाङ्गुली तद्विहीना न शोभते । अहो । यदे
काप्यनामिकाऽऽभरणवियुक्तेति सर्वाझं साभरणमपि शोभा न घचे । यद्यखिलेवाभरणं न स्यात्तदा शरीरस्य शोभा कीदृशी स्थात इति विचिन्त्य सर्वाभ्य आभरणान्यपाकरोत । तदा तच्छरीरं विच्छायमपश्यत । तदेव सोऽनित्यमा भावयन धषकश्रेणीमधिगच्छन् घात्य कर्म थपयित्वा केवलज्ञान प्रपेदे । तत्कालं साधुवेयं तस्मै शासनदेवता ददौ । तदा दशसहस्रनृपैः सह स ततो विजई । चिरं पृथिवीं पवित्रयन जनान् प्रतिबोधयन्त्रष्टापदतीर्थमागत्य घात्यानि कर्माणि निहत्य भरतचक्रवर्ती मोक्षमियाय एतदनित्यभावनायाः फलमवगन्तव्यं सर्वैर्भव्यैः ।
एसस्मिन्ने विषय एलाचीकुमारस्य ३७ प्रबन्धः____ यथा---एलापुरवर्धनाभिधे नगरे कस्यचिदिभ्यस्प व्यवहारिण एलाचीपुत्र आसीत् । स शंशानन्तरं द्विसप्ततिकलासु । निपुणो जज्ञे मातापित्रोश्च ग्रेयानभूत् । तत्रैकदा कश्चन नटमण्डल आगात । तत्पुत्रीमतिरूपवतीमालोक्य म निसरां मुमोह । ततः स नटमवक-मो नट ! निजपुत्रीं मे देहि । नटेनोक्तम्-भोः कुमार ! लोके सर्वैः स्वजातिमध्ये पुत्री दीयते । त्वं विजातीयोऽसि
अतस्ते सुतामेनां न दित्सामि । पुनस्तेन प्रचुरधनलोभे दर्शिते नटोऽवदत्-भोः कुमार ! यदि मम पुत्री परिणेतुमिच्छसि, HI हि मद्वेषेण मत्सविधे स्थित्वा नाटकी विद्या शिक्षस्त्र । कमपि राजानं च विद्यया प्रसाध धनमर्जय तदा ते पुीं दास्यामि । तर-1
चोङ्गीकृत्य स पितरौ जगाद-हे पितरौ ! अहं किल नटवेपेण तत्सार्थे स्थातुमिच्छामि युवामनुज्ञां दत्तम् । यतो मे तत्पुत्री