________________
:-
चक्रवर्तिपार्श्वमेत्य स पुरा नमासीकृतं वरमयाघत । सोऽप्यवक्-मार्गय दास्यामि, तदा दिनत्रयं में राज्यं देहीति याचितचान् । तथास्त्रिति निगद्य नृपोतःपुरमविशत्, नमुञ्चिश्चक्रवर्त्यभूत् । तदा सर्वे प्रधानपौरा अधिकृतपुरुषाः सन्तो महान्तस्तदन्ये धर्माचार्यादयस्तन्मिलनाय समाजग्मुः, परं स सुव्रताचार्यों नागात् तदा तेन नमुश्चिचक्रवर्तिना लोकमुखेन । तस्य कथापितम् । यथा-त्वं मम मिलनाय नाऽऽगाः, अतस्त्वं दिनत्रयाऽभ्यन्तरे मद्राज्यमूर्मि त्यज नो चेद्वातयिष्यामि । एवं तदादेश श्रुत्वा मुनिनाऽपि संघमुखेन तस्यैवं कथापितम् । जैनसाधवः कस्यापि मिलनाय न गच्छन्ति, न च चातुर्मास्ये बहिरन्यत्र प्रयान्ति, इति लोकबहुधाऽभ्यर्थितोऽपि नमुश्चिनिजादेशं न परावर्तयत किन्तु यात यात्वित्येवादिष्टम् । तदाचायों मेगेवि. ष्णुकुमारमेवघृचमावेद्य समाकारयत् । सोऽपि तत्राऽऽगत्य गुरुमवन्दत तत आचार्यः सर्वमादितो नमुश्चिनृपादेशमाचख्यो । ततो विष्णुकुमारो महापद्मान्तिकं गत्वा जगाद । भोः ! साधोरुपसर्ग कथं करोषि १ तेनोक्तम्-किङ्करोमि, बचनेन बद्धोऽसि, तदनु नमुश्चिपार्श्वमेत्य तं बहुधा स प्रत्यवोधयत, पर मनागपि स नाऽयुध्यत । पुरा दत्ताऽऽदेशं मुधा नाऽकरोत् । यदि स मम | राज्यतो न निर्गमिष्यति तर्हि तमवश्यमहं पातयिष्ये । तदुक्तमीदर्श श्रुत्वा विष्णुकुमारोऽवदतु-कुत्राऽपि किश्चिदपि मे भूमि दित्ससि न वा ? तदा तेनोक्तम्-भवत्कथनेन पदनयां भूमि ददामि । तत्राऽवसरे विष्णुकुमारो लक्षयोजनाऽऽयतं शरीरं विकत्पैकें पदं पूर्वस्यां दिशि द्वितीयं पदं प्रतीच्यां न्यस्य तमबोचत-हे नमुच्चे ! तृतीय चरण धर्तु भूमि ददस्य नो चेत्र स्वपिहि। तदा भूमिमप्राप्य सप्तस्य तस्य पृष्ठ एव स तृतीय चरणं न्यधात् । तेन नमश्चिर्वसुन्धरां विवेश, इत्य स तपःप्रभावासर्वमुपसर्ग न्यवारयत तादृशं रूपं च विचक्रे | सप:प्रमावादनेके सत्पुरुषाः संसारं तेरुस्तरिष्यन्ति च । इति तपोमाहात्म्यमतुलं