________________
विष्णुकुमारस्य ३५-कथा
तथाहि - उज्जयिन्यां पुर्या धर्माभिधानो राजास्ति । तस्य नर्मुचिनामा मिध्यादृष्टिः प्रधानोऽस्ति । तत्राऽन्यदा पञ्चशतमुनियुतः सुव्रताचार्यः समागात् । तद्वन्दनार्थ सपौरः सकुटुम्बः क्षितीश आययौ । नमुचिरपि क्षितिजा सह तत्रागत्य निजौद्धत्येन गुरुणा सह विवदितुं लग्नः । तदैकेन क्षुद्धकेन शिष्येण सुखेन स विजिग्ये । शासनदेवता तदा से स्तब्धीच मातेच सर्वे परास्तं भृशं निनिन्दुः । तेन लज्जितः स इस्तिनागपुरमगात् तत्र च पद्मोत्तराख्यनृपस्य राज्ञीद्वयमस्ति । एका जाला5भिधाना सम्यक्ती द्वितीया लक्ष्मीदेवी मिथ्यात्वनी चास्ति । क्षत्र ज्वालाया विष्णुकुमार महापद्मकुमारौ पुत्रावभृताम् । अर्थकदा ज्वालादेवी जिनेश्वरस्थं लक्ष्मीदेवी च ब्रह्मणो स्थमचीकरताम् । द्वौ रथौ नगरे भ्रमितौ परस्परमेकत्र मिलितौ । तदा दलद्वये विवादो जातः । तत्रावसरे मिथः कलहमालोक्य येन मार्गेण तत्राऽऽगतो तेनैव मार्गेण राज्ञा तौ रथों परावर्तितौ । तेन महापद्मकुमारो रुष्टो भूत्वा देशान्तरमगच्छत् । नानादेश कौतुकं पश्यन् महत समृद्धिमधिगच्छन् चक्रवर्तिराज्यमाष । अथान्यदा सार्वभौम या शोभमानः स्वनगरीमागतः । नमुचिरपि हरिसनागपुरम नेषः देशान् परिश्रम्य समायातः । स महापद्मकुमारममि - लत् सोऽपि तं प्रधानपदे न्ययुक्क्त । पद्मोससे राजा विष्णुकुमारेण सह सुवताचार्यसमीपे चारित्रं ललौ । इतच महापद्मचक्रवर्ती मातुर्मनोरथं रथभ्रमणात्मकं तदा पुपूरे । विष्णुकुमारी मुनि तपस्य कृत्वा तत्प्रभावेण मेरुशिखरमासाग्र कायोत्सर्गे तस्थौ । इत्थं तपस्यतस्तस्य वर्षसहस्रं व्यत्यैव । इतश्च सुव्रताचार्यों निजपरिवारैः सह तत्र चतुर्मासीं विधातुमागात् । तदाकर्ण्य दुष्टेन नमुचिनाऽचिन्ति । यदनेन पुराऽहं निर्जित्य स्थानाश्याजितोऽस्मि । अतोऽसौ मम वध्य एवेति विचिन्त्य